पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० कुवलयानन्दः। [ काव्यलिङ्गालंकारः ६० बेकिस्वाभिप्रायगर्भम् । विदुषीत्यस्य प्रतिनिर्देश्यत्वात्रिलोचन इति च कन्द- पैदाहकतृतीयलोचनत्वाभिप्रायगर्भम् । कन्दर्पजयोपयोगित्वात्तस्य । सत्यम् । तथापि न तयोः परिकर एव किंतु तदुत्थापितं कायलिङ्गमपि ॥ प्रतीयमानाविवेकविशिष्टन पशुनाप्यपुरस्कृतत्वस्यानेकपदार्थस्य प्रतीयमा- नकन्दर्पदाहकतृतीयलोचनविशिष्टस्य शिवस्य चित्ते संनिधानस्य च चाक्या- र्थस्य वाच्यस्यैव हेतुभावात् । नहि तयोर्वाच्ययोर्हेतुभावे ताभ्यां प्रतीयमानं मध्ये किंचिद्वारमस्ति । यथा सर्वांशुचिनिधानस्येत्यादिपदार्थपरिकरोदाहरणे सर्वाशुचिनिधानस्येत्यादिनानेकपदार्थेन प्रतीयमानं शरीरस्यासंरक्षणीयत्वम् । तथाच वाक्यार्थपरिकरोदाहरणे पर्यायोक्तविधया तत्तद्वाक्याथेन प्रतीयमानं नाहं व्यास इत्यादि । तस्मात्पशुनेत्यन्न त्रिलोचन इत्यत्र च प्रतीयमानं वाच्य.. स्यैव पदार्थस्य वाक्यार्थस्य च हेतुभावोपपादकतया काव्यलिङ्गस्याङ्गमेव । यथा--'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरम्' इत्यनेकवाक्यार्थ- हेतुककाव्यलिङ्गोदाहरणे त्वन्नेत्रसमानकान्तीत्यादिकानि इन्दीवरशशिहंसवि- शेषणालि तेषां वाक्यार्थानां हेतुभावोपपादकानीति । तत्र वाक्यार्थहेतुकका- व्यलिङ्गे पदार्थहेतुककाव्यलिङ्गमङ्गमिति न तयोः कायलिङ्गोदाहरणत्वे काचि- दनुपपत्तिः ॥१२॥ ऽर्थो व्यङ्ग्योऽर्थः ॥ प्रतिनिर्देश्यत्वादिति ॥ निर्दिश्यते उच्चार्यत इति निर्दे- शः शब्दः तेन । विपरीतार्थशब्दबादित्यर्थः। तस्य तादृशतृतीयलोचनखस्य। तथाचोभयत्र परिकरालंकारसत्त्वात्काव्यलिङ्गोदाहरणसमनुपपन्नमिति भावः । तयोः पशुनेत्याधुक्तोदाहरणयोः । तदुत्थापितं परिकरोपपादितम् । व्यङ्ग्यस्य हे. तुकोटावेचानुप्रवेशादिति भावः॥ एतदेव विवृणोति-प्रतीयमानेति ॥ वाच्य- स्यैवेत्येवकारसूचितं व्यङ्ग्यद्वारकत्वं नहीत्यादिना विवृतम् । तदयमर्थः- यदि पश्वादिपव्यङ्ग्य केशपाशसाम्याभावादेरर्थस्य साक्षादुपपादकं स्यात्तदात्र परिकर एच स्यान्न काव्यलिङ्गम् । न त्वेवमस्ति । पशुपदप्रतीताविवेकिलमात्रेण साम्या- भावस्योपपादनासंभवात् । किंतु तद्विशिष्टपशुपुरस्कृतखाभाव एवं साक्षादुपपा- दक इति तत्कोटिनिविष्टं व्यङ्ग्यं काव्यलिङ्गरूपस्य तस्याशमेव । व्यङ्यान्तरं तु नोक्तकाच्यलिङ्गगम्यमर्थोपपादकमस्तीति निराबाधमेव काव्यलिङ्ग मिति । ननु. स्वयमन्योपपादकस्य काव्यलिङ्गस्याप्युपपादकं क दृष्टमित्याशङ्कयोदाहरति- यत्त्ववेत्रेति ॥ एतत्प्रतीपालंकारे प्रागुदाहृतम् ॥ अनेकवाक्यार्थहेतुके- ति ॥ पूर्वपादत्रयवाक्यार्थत्रयस्य चतुर्थपादार्थहेतुखमिति ज्ञेयम् ॥ हेतुभावो- पपादकानीति ॥ इन्दीवरस्य नेत्रसमानकान्तित्वं विना पटादेरिव तददर्शन- स्य दैवगतकान्तासादृश्यविनोदासहिष्णुत्वे हेतुखासंभवादिति भावः । समाहित- मर्थमुपसंहरति-इतीति। तयोः पशुनापीति मचित्तेऽस्तीखेतयोः॥ १२१ ॥ इति काव्यलिझालंकारः ॥६. .. . .