पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ कुवलयानन्दः । [ अर्थापत्यलंकारः ५९ यथावा- मम रूपकीर्तिमहर वि यस्तदनु प्रविष्टहृदयेयमिति। . . त्वयि मल्सरादिव निरस्तदयः सुतरां क्षिणोति खलु ता मदनः ॥ एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं अत्यनीकमिति स्थि- ते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा- मधुव्रतौघः कुपितः स्वकीयमधुप्रपापानिमीलनेन। बिम्बं समाक्रम्य बलात्सुधांशोः कलङ्कमके ध्रुवमातनोति ॥ ११९ ॥ अर्थापत्त्यलंकारः ५९ कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥१२०॥ __ अम्र स इत्यनेन पद्माति येन जितानि इति विवक्षितं, तथाच सोऽपि येन जितस्तेन पमानि जितानीति किमु वक्तव्यमिति दण्डापूपिकान्यायेन पद्मरू- पस्यार्थस्य संसिद्धिः काव्यार्थापत्तिः । तान्त्रिकाभिमतार्थापत्तिव्यावर्तनाय का ज्येति विशेषणम् । यथावा- अधरोऽयमधीराक्ष्या बन्धुजीवप्रमाहरः।। अन्यजीवप्रभा हन्त हरतीति किमद्धतम् ॥ परि स्थितत्वादधस्तात्कृतौ चेति श्लेषः ॥ ममेति ।। भुवि भूलोकें मम रूपख्या- तिं' यो हृतवान् तस्मिन्ननुप्रविष्टमनुरक्तं हृदयं यस्याः , तस्यानुप्रविष्टं हृदयं यस्यां वा तादगियमिति लयि मत्सरादिव खलु निश्चितं निरस्तदयो मदनस्तां क्षिणोति क्षीणां करोतीत्यन्वयः । अत्र मत्सरादिवेति हेत्वंशे उत्प्रेक्षासत्त्वेऽपि तहेतुकप्र- विपक्षसंबन्धिवाधनं प्रत्यनीकालंकारस्य विविको विषय इति बोध्यम् । अतएव मम्मटमट्टैरपि-त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्खनुरक्ता। पश्च-.. भिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः॥' इत्युदाहृतम् । एवंच हेतूत्प्रे- क्षयैव गतार्थलान्नेदमलंकारान्तरं भवितुमर्हतीति कस्यचिद्वचनमनादेयम् ॥ कैमतिकेति ॥ तत्संबन्धिबांधनापेक्षया साक्षात्तद्वाधने विशेषादिति भावः। मध्विति ॥ भ्रमरोघः खकीयमधुप्रपारूपस्य पद्मस्य निमीलनेन कुपितः सन् सुधांशोर्बिम्बं बलात्समाकृष्य तस्याङ्के मध्यभागे कलङ्क ध्रुवमातनोतीत्यन्वयः । ॥ ११९ ॥ इति प्रत्यनीकालंकारः॥ ५८ ॥ कैमुत्येनेति ॥ कैमुत्यन्यायेनेत्यर्थः । काव्येऽलंकाररूपार्थापत्तिः काव्यार्था- पत्तिः । दण्डापूपिकेति ॥ दण्डाकर्षणे तदवलम्बिनामपूपानामाकर्षणं यथा- र्थसिद्धं तद्वदित्यर्थः । व्यावर्तनायेति ॥ लक्ष्यतावारणायेत्यर्थः । अधरो- ऽयमिति बन्धुजीवं बन्धूकपुष्पं तत्प्रभाहरो बन्धुभूतानां जीवानां प्रभाहरश्च । यत्त्वेतल्लक्षणमयुक्तम् , कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थांपत्तावव्याप्तेः। । यथा---'तवाग्रे यदि दारिद्य स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यों --