पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यनीकालंकारः ५८ ] अलंकारचन्द्रिकासहितः। १२५ आद्योदाहरणे श्रुतस्य पान्थस्य कर्तृकारकस्यैकस्य गमनादिष्वन्वयः, द्वितीये वध्याहृतस्य प्रभुकर्तृकारकस्य निद्रादिष्वन्वय इत्येकस्यानेकवाक्यान्वयेन दी- पकच्छायापत्त्या कारकदीपकं प्रथमसमुच्चयप्रतिद्वन्द्वीदम् ॥ ११७ ॥ समाध्यलंकारः ५७ .. समाधिः कार्यसौकर्य कारणान्तरसंनिधेः । उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥११८॥ यथा वा- मानमस्या निराकर्तुं पादयो, पतिष्यतः । . उपकाराय दिप्त्यैतदुदी] धनगर्जितम् ॥ केनचिदारिप्सितस्य कार्यस्थ' कारणान्तरसंनिधानाधत्सौकर्य तत्सम्यगा- धानात्समाधिः। द्वितीयसमुच्चयप्रतिद्वन्द्वी अयं समाधिः । तत्र बहूनां प्रत्येक समर्थानां खलेकेपोतकन्यायेन युगपत्कार्यसाधनत्वेनावतारः। अन्न त्वेकेन कार्ये समारिप्सितेऽन्यस्य काकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्व- मानम् । अत्रोदाहरणमुत्कण्ठितेत्ति । उत्कण्ठैव प्रियाभिसरणे पुष्कलं कारणं नान्धकारागममपेक्षते 'अत्यारूढो हि नारीणामकालज्ञो मनोभवः' इति न्यायात् दैवादापतता स्वन्धकारेण तत्सौकर्यमानं कृतमिति । एवं द्वितीयो- दाहरणेऽपि योज्यम् ॥ ११॥ PATRawweranderPENISTRALIANTERASANNYLORAMAYANTINENTARNATARNAKARENDRAGIMARATHEERAMANANTONYEpikhonrowinikPARTONE ६ प्रत्यनीकालंकारः ५८ प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः। जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधाकृतौ ॥ ११९ ॥ भूयः पुनः । छायासादृश्यं मुख्यदीपकस्य पूर्वोक्तप्रकारेण संभवादिति भावः । प्रतिद्वन्द्वि विपरीतम् ॥ ११७ ॥ इति कारकदीपकालंकारः ॥ ५५ ॥ समाधिरिति ॥ कारणान्तरसंनिधेशात्कार्यस्य सुकरत्वं समाधिरलंकारः। उत्कण्ठिता नायकसमीपं गन्तुम् ॥ मानमिति ॥ मानं निराकर्तुमस्याः पादयोः पतिष्यतो ममोपकाराय दिष्ट्या भाग्येनेदं घनगर्जितमुदीर्णमुद्गतमित्यन्वयः। समु- चये कारणानां तुल्यकक्षत्वमिह तु तद्विपरीतमतुल्य कक्षसमिति प्रतिद्वन्द्वित्वं तत्रे- त्यादिना दर्शितम् ॥ ११८॥ इति समाध्यलंकारः ॥ ५७॥ प्रत्यनीकमिति ॥ बलवतः शत्रोः पक्षे पक्षान्तःपातिनि तदीये यः परा- क्रमस्तत्प्रत्लनीक नामालंकारः । अनीकप्रतिनिधिरूपलात् ॥ जैत्रेति ॥ उत्प- लाभ्यां खजयकारिनेत्रानुसारिणौ कर्णावधः कृतौ तिरस्कृतौ । अवतंसतया तदु- . १'कुलटा'.२'वृद्धायुवानः शिशवः कपोता: खले यथामी युगपत्पतन्ति' इत्यनेन.. SWERS RE