पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


पञ्चमो मयूखः ५ शब्दालंकारपरिसंख्यानम्-- शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा। हारादिवदलंकारसंनिवेशो मनोहरः॥१॥ स्वरव्यञ्जनसंदोहव्यूहाः संदोहदोहदाः । गौर्जगजाग्रदुत्सेकाच्छेकानुप्रासभासुरा ॥२॥ आवृत्तवर्णसंपूर्ण वृत्त्यनुप्रासवद्वचः । अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमन्दिरम् ॥ ३ ॥ लाटानुप्रासभूभिन्नाभिप्राया पुनरुक्तता । यत्र स्यान्न पुनः शनोर्गर्जितं तर्जितं जितम् ॥ ४ ॥ श्लोकस्यार्धे तदर्धे वा वर्णावृत्तियदि ध्रुवा । तदा मता मतिमतां स्फुटानुप्रासता सताम् ॥५॥ उपमेयोपमानादावर्थानुप्रास इष्यते । चन्दनं खलु गोविन्दचरणद्वन्द्ववन्दनम् ॥ ६॥ पुनरुक्तप्रतीकाशं पुनरुक्तार्थसंनिभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तमुपैत्यसौ ॥७॥ आवृत्तवर्णस्तबकं स्तवकन्दाङ्करं कः। यमकं प्रथमाधुर्य माधुर्य वचसो विदुः ॥८॥ काव्यवित्प्रवरैश्चित्रं खगबन्धादि लक्ष्यते । तेवाधमुच्यते श्लोकद्वयी सज्जनरञ्जिता ॥ ९ ॥ कामिनीव भवेत्खङ्गलेखा चारुकरालिका । काश्मीरसेकरक्ताङ्गी शत्रुकण्ठान्तिकाचिका ॥ १० ॥ शब्दालंकारान्निरूप्यार्थालंकारमाह । तत्रैषामलंकाराणां अनुक्रमणिका लिख्यते- उपमानन्वयावादावुपमेयोपमानता। प्रतीपं रूपकं चैव परिणामस्ततो मतः ॥१॥ उल्लेखः स्मृतिमद्धान्तिमत्संदेहा अपह्नुतिः । उत्प्रेक्षातिशयोक्ती च ततः स्यात्तुल्ययोगिता ॥२॥ दीपकालंकृतिश्चैव तत आवृत्तिदीपकम् । प्रतिवस्तूपमा चैव स्यादृष्टान्तो निदर्शना ॥३॥ व्यतिरेका सहोक्तिश्च विनोक्तिस्तदनन्तरम् । समासोक्तिः परिकरस्तथा परिकराकरः ॥४॥ श्लेषो मेयोऽप्रस्तुतप्रशंसा च प्रस्तुतारः । पर्यायोक्तं ततो व्याजस्तुतिः स्याद्याजनिन्दनम् ॥५॥