पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समुच्चयालंकारः ५५] अलंकारचन्द्रिकासहितः। विकल्पालंकारः ५४ विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता। . . सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः ॥११६॥ अत्र संधिविग्रहप्रमाणप्राप्तयोः शिरश्चापनमनयोर्युगपदुपस्थितयोर्युगपत्क- तुमशक्ययोविकल्पः । यथावा- पतत्यविरतं वारि नृत्यन्ति च कलापिनः। - .. अय कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥ प्रियसमागमश्चेन्न मरणमाशंसनीयं मरणे तु न प्रियसमागमसंभव इति तयोराशंसायां विकल्पः ॥ ११ ॥ समुच्चयालंकारः ५५ बहूनां युगपद्भावभाजां गुम्फः समुच्चयः। नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः ॥११५॥ अविरोधेन संभावितयोगपद्यानां नाशादीनां गुम्फनं समुच्चयः । यथावा- बिभ्राणा हृदये स्वया विनिहितं प्रेमाभिधानं नवं . शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति अम्लायति प्रेङ्क्षति भ्राम्यत्युल्लुठति प्रणश्यति गलत्युन्यूछेति त्रुट्यति ॥ . अत्र कासांचित्क्रियाणां किंचित्कालभेदसंभवेऽपि शतपत्रपत्रिशतभेदन्या- येन यौगपचं विरहातिशयद्योतनाय विवक्षितमिति लक्षणानुगतिः॥ ११५ ।। मार्ग बक्रिमाणं कौटिल्यं वक्राकारतां च । महाकाल इति तत्रैव ख्यातं शिवलि- शम् ॥ ११३ ॥ इति परिसंख्यालंकारः ॥ ५३ ॥ हप्रमाणेति ॥ संधिविग्रहयोः कर्तव्यताबोधकप्रमाणेल्यर्थः । ॥ ११४ ॥ इति विकल्पालंकारः ॥ ५४ ॥ ... बहूनामिति॥ युगपद्भावो भवनं तद्भाजा बहूनां गुम्फो निवन्धः। वर्णन- मितियावत् । ससमुच्चयालंकारः ॥ बिभ्राणेति ॥नायकं प्रति दूत्या इयमुक्तिः। हे साधो, लया हृदये विनिहितं प्रेमाभिधानं नवं शल्यं धारयन्ती विधुरिता वि- रहविह्वला सा नायिका यद्विदधाति तदाकर्ण्यतामित्यन्वयः । किं तदित्यपेक्षाया- माह-शेते निद्राति । ताम्यति ग्लानिं प्राप्नोति । प्रकर्षण म्लायति । प्रेजति चलति । प्रणश्यति नैर्बल्यातिशयेन मृतप्राया भवति । गलति खेदा- तिशयात् त्रुट्यति क्षीणा भवतीति । कासांचिच्छयनभ्रमणादीनाम् । शत- १'दाजां भावगुम्फ:'. २ 'भ्रश्यन्ति च तव द्विषः'. .