पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ कुवलयानन्दः। [परिसंख्यालंकारः ५३ इदानी नाथस्त्वं वयमपि कलत्रं किमपरं हतानां प्राणानां कुलिशकठिनानां फलमिदम् ।। अन दम्पत्योः प्रथममभेदस्ततः प्रेयसीप्रियतमभावस्ततो भार्यापतिभाव ' इत्याधेयपर्यायः॥ ११॥ . परिवृत्त्यलंकारः ५२ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः। जग्राहैकं शरं मुक्त्वा कटाक्षात्स रिपुश्रियम् ॥१११॥ यथावा- तस्य च अवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययाक्रीतमिन्दुकिरणोज्वलं यशः ॥ १२ ॥ परिसंख्यालंकारः ५३ परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयत्रणम् । स्नेहक्षयः प्रदीपेषु न खान्तेषु नत वाम् ॥ ११३ ॥ यथावा- विलयन्ति श्रुतिवमै यस्यां लीलावतीनां नयनोत्पलानि । विभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ।। - आद्योदाहरणे निषेधः शाब्दो द्वितीये स्वार्थः ॥ ११३ ॥ नु वितर्के । वं प्रियतमः । वयं प्रियतमाः । इदानीं तु त्वं नाथः पतिः वयं भार्याः। इतोऽपरं किमिष्टमिति शेषः । कुलिशं वञम् । अत्र त्वं प्रेयानित्येकवचने- न एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेनानेकरूपतयतिरेक इंति बोध्यम् ॥ १११ ॥ इति पर्यायालंकारः ॥५१॥ परिवृत्तिरिति । न्यूनाधिकयोर्मियः परस्पर विनिमयः परिवृत्तिरलंकारः ॥ जवाहेति ॥ कटाक्षपूर्वकमेकं शरं मुक्ता रिपोः श्रियं जग्राहेत्यर्थः। तस्य चेति ॥ प्रवयसो वृद्धस्य जटायुषो गृध्रविशेषस्य स्वर्ग गतवतः किमिव शोच. नीयम् । न किंचित् । जर्जरं जीर्णतरं कलेवरं शरीरं तस्य व्ययो रावणेन सहं युद्धे त्यागस्तस्माद्यशः क्रीतम् । शरीरं दला यशो गृहीतमित्यर्थः ॥ ११२॥ इति परिकृत्यलंकारः ॥ ५२ ॥ . परिसंख्येति। एक वस्तु प्रतिषिध्यापरस्मिन्वस्तुनो नियन्त्रण नियमनं परिसंख्यालेकार हेति ॥ स्नेहस्सैलादिस्निग्धद्रव्यमनुरागच । खान्तेषु चि- तेषु । विलयनमिति ।। यस्यामुज्जयिनीपुर्याम् । श्रुतिः कर्णो वेदश्च । कम ___ १ कटाक्षान्स'. ३ 'रिपुस्जियम्'. MAHSLIMMAR RPORol