इत्यत्र पर्यायं काव्यप्रकाशकुटुदाजहार । सर्वत्र शाब्दः पर्यायो यथा--
|
नन्वाश्रयस्थितिरियं तव कालकूट |
सर्वोऽप्ययं शुद्धपर्यायः । संकोचपर्यायो यथा---
|
प्रायश्चरित्वा वसुधामशेषां छायासु चिक्ष्रम्य ततस्तरूणाम् । |
अत्र शैस्यस्योत्तरोत्तरमाधारसंकोचासंकोचपर्यायः । विकासपर्यायो यथा----
|
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत । |
अत्र रागस्य पूर्वाधारपरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः ॥११०॥
|
एकस्मिन्यधनेकं वा पर्यायः सोऽपि संमतः । |
यथवा-
|
पुराभूदस्माकं प्रथममविभिन्ना तनुरियं |
धारसमाश्रयणांशे ॥ नन्विति॥ हे कालकूट, उत्तरोत्तरविशिष्टमुत्कृष्टं पदं स्थानं यस्यां तादृशी इयमाश्रयस्थितिस्तव केनोपदिष्टेत्यन्वयः। हृदयेऽभ्यन्तरे। अवस इति शेषः । अथानन्तरं वृषलक्ष्मणो हरस्य कण्ठे । अधुना पुनरिति संवन्धः। शुद्धः संकोचविकासामिश्रितः ॥ प्राय इति ॥ शैत्यं प्रायोऽशेषां वसुधां हेमन्ते चरित्वा ततो वसन्ते तरूणां छायासु विश्रम्य संप्रति ग्रीष्मे विग्मभानौ सूर्ये प्रौढिं प्रागल्भ्यं प्राप्ते सति शनैरपां जलानामन्तरमभ्यन्तरे अयासीत् गच्छतिस्मेत्यर्थः॥बिम्बोष्ट एवेति ॥ बिम्बफलसदृशे आछे । रागो रक्तिमा अनुरागश्च । एष रागः । अत्र रागस्य भेदेऽप्यमेदाध्यवसायादेकत्वम् । यत्तु एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायपदप्रयोगाच्छोणीबन्ध इति प्रकाशोदाहते तथैव दृष्टत्वाच बिम्बोष्ठ एवेत्यत्र पर्यायकथनमयुक्तमिति केनचिदुक्तं तत्प्रकाश एव बिम्बोष्ठ इत्युदाहरणे पर्यायसमर्थनाद्धान्तप्रलपनमिवोपेक्षणीयम् । आलंकारिकपरिभाषितानां शब्दानां लोकव्यवहारविसंवादस्याकिंचित्करत्वाच्चेति दिक् ॥ ११०॥ भेदान्तरमाह--एकस्मिन्निति ॥ पर्यायेणेत्यनुवर्तते । एकस्मिन्नाधारे क्रमेण यद्यनेकंभवति सोऽपि पर्यायालंकारः संमत इत्यर्थः ॥ पुरेति ॥अस्माकमिति 'अस्मदो द्वयोश्च' इति द्वयोरपि बहुवचनम् । पुरेत्यनेन स्थूलोऽतीतकाल उच्यते। तत्रापि प्रथमं तनुरविभिन्नाभूत् । ततो
- ↑ 'श्रोतः'.