पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० कुवलयानन्दः । [ पर्यायालंकारः ५१ यथासंख्यालंकारः ५० यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः। शत्रु मित्रं विपत्रिं च जय रञ्जय भञ्जय ।। १०९ ।। यथावा- शरणं किं प्रपद्यानि विषवन्मारयन्ति वा । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ अमुं क्रमालंकार इति केचिद्व्याजहुः ॥ १०९ ॥ पर्यायालंकारः ५१ पर्यायो यदि पर्यायेणैकस्सानेकसंश्रयः । पड़ मुक्त्वा गता चन्द्रं कामिनीवदनोपमा ॥ ११० ॥ अत्रैकस्य कामिनीवदनसादृश्यस्य क्रमेण पद्मचन्द्ररूपानेकाधारसंश्रयणं पर्यायः । यद्यपि पद्मसंश्रयचं कण्ठतो नोकं तथापि पनं मुक्त्वेति तत्परित्या- गोक्क्या प्राक् तत्संश्रयाक्षेपेय पर्यायनिर्वाहः । अतएव- 'श्रोणीबन्धस्त्यजति तनुर्ता सेवते मध्यभागः पयां मुकास्तरलगतयः संश्रिता लोचनाभ्याम् । धचे वक्षः कुचसचिवतामद्वितीयं तु वक्र त्वद्वात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ e cessanelURINERALARIKSuTLApusiMainaashairneshwaranan-tumhastram- सुन्दर लत्कीर्तेः कर्णभूषणं नीलोत्पलं विभातीत्यन्वयः । तूलः कार्पासः। प्रकृतार्थाशायां प्रकृतार्थरूपायामाशायाम् ॥ १०८॥ इति सारालंकारः॥ ४९ ॥ यथासंख्यमिति ।। क्रमिकाणा क्रमेणोकानां पदार्थानां तेनैव क्रमेणान्वयो यथासंख्यनामालंकारः ॥ शरणमिति ॥ कृपणेन धनानि यत् त्यज्यन्ते तत्किं तानि सरमं प्रपन्नानि, यच न भुज्यन्ते तात्कं विषवन्मारयन्तीति क्रमेणान्वयः। केचिद्वामनादयः ॥ १०९॥ इति यथासंख्यालंकारः ॥ ५० ॥ पर्याय इति ॥ पर्यायेण क्रमेण । अनेकसंश्रयोऽनेकाश्रितलम् । तदुक्तम्- एवं क्रमेणानेकस्मिन्पर्यायः' इति ॥ पद्ममिति ॥ रात्री पद्मसंकोचात्त्यामः । अतएव त्यागेन पूर्वसंश्रयणाक्षेपादेव ॥ श्रोणीति ॥ जघनबन्धखकुत्ता झला . जति । मध्यभागस्तां सेवते आश्रयति । वक्षःस्थलं कुचसचिवतां कुचसहितत्वं धत्ते। वर्ष बद्धितीयम् । अत्र पूर्व वक्षसोद्वितीयलावगमात्पर्यायसंभवी शेयः। अद्वितीयत्वं द्वितीयरहितसमनुपमत्वं चैकत्वेनाध्यवसितम् । एवं चोदाहरणव- येषि पूर्वाधारसमाश्रयणं गम्यमुत्तराधारसमाश्रयर्थ शान्दमिति । सर्वत्र सर्वां १ वजहः'. २ वदवप्रभा'. n alto