पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकालंकारः ४१ ] अलंकारचन्द्रिकासहितः । ११३ अधिकालंकारः ४१ अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः ॥१५॥ अत्र यन्त्र महाजलौधेऽनन्तानि ब्रह्माण्डानि बुहुदकल्पानीत्याधारस्याति- विशालत्वं प्रदश्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथावा- युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥ ९५ ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् । कियद्वारब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥ ९६ ॥ अन्नत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राभ्यन्तीत्यसंबाधा- वस्थानोत्तयाधारस्य वाग्ब्रह्मण आधिक्यं वर्णितमा यथावा- अहो विशालं भूपाल भुवनन्नितयोदरम् । माति मातुमशक्योऽपि यशोराशियंदन ते ॥ .अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वारब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणय- शोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत. गुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥१६॥ जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९४॥ इति विचित्रालंकारः ४० . अधिकमिति ॥पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णन- मेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः स्वस्सिँल्लयं प्रापित आत्मा स्खविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्थां तनौ तपोधनस्य नारदस्यास्यागमात्संभवो यास ता मुदः प्रीतयो न. ममुरित्यन्वयः ॥९५॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधि- कम्॥ कियदिति ॥ अपरिमितमित्यर्थः। वाक् शब्द एव ब्रह्म । इयं च परमे- श्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति। असंकटेत्यर्थः ॥ अहो इति ॥ माति संभाति । मातुमशक्योऽपरिमितः। अत्र भुवनत्रयोदरे। नन्वाधारयोः शब्द- ब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशझ्याह-- अत्रेति ॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति । इत्थं चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णन मिति सामान्यलक्षणं बोव्यम् ॥१६॥ इत्यधिकालंकारः॥४१॥ । तदपि वयेते'. .