अधिकालंकारः ४१
|
अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्। |
अत्र यत्र महाजलौधेऽनन्तानि ब्रह्माण्डानि बुहुदकल्पानीत्याधारस्यातिविशालत्वं प्रदर्श्य तत्र न मान्तीत्याधेयानां गुणानामाधिक्यं वर्णितम् । यथावा-
|
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । |
|
पृथ्वाधेयाद्यदाधाराधिक्यं [१]तदपि तन्मतम् । |
अत्रैत इति प्रत्यक्षदृष्टमहावैभवत्वेनोक्तानां गुणानां विश्राभ्यन्तीत्यसंबाधा- वस्थानोत्तयाधारस्य वाग्ब्रह्मण आधिक्यं वर्णितमा यथावा-
|
अहो विशालं भूपाल भुवनन्नितयोदरम् । |
अत्र यद्यप्युदाहरणद्वयेऽपि कियद्वारब्रह्मेति अहो विशालमिति चाधारयोः प्रशंसा क्रियते तथापि तनुत्वेन सिद्धवत्कृतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोराश्यधिकरणत्वेनाधिकत्वं प्रकल्प्यैव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुतगुणयशोराशिप्रशंसायामेव पर्यवस्यति ॥९६॥
जगन्ति त्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९४॥ इति विचित्रालंकारः ४०
अधिकमिति ॥पृथुलादाधेयापेक्षया विशालादाधारादाधेयस्याधिक्यवर्णनमेकोऽधिकालंकारः ॥ युगान्तेति ॥ युगान्तकाले प्रलये प्रतिसंहृतः स्वस्सिँल्लयं प्रापित आत्मा स्वविलासरूपः प्रपञ्चो येन तादृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ जगन्ति भुवनानि विकाशसहितं यथा स्यात्तथा आसत स्थितानि तत्र तस्थां तनौ तपोधनस्य नारदस्यास्यागमात्संभवो यास ता मुदः प्रीतयो न ममुरित्यन्वयः ॥९५॥ पृथ्विति ॥ विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकम्॥ कियदिति ॥ अपरिमितमित्यर्थः। वाक् शब्द एव ब्रह्म । इयं च परमेश्वरं प्रति भक्तस्योक्तिः ॥ असंबाधेति ॥ असंकटेत्यर्थः ॥ अहो इति ॥ माति संभाति । मातुमशक्योऽपरिमितः। अत्र भुवनत्रयोदरे। नन्वाधारयोः शब्दब्रह्मभुवनोदरयोरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदाधिक्यवर्णनमयुक्तमित्याशङ्कयाह-- अत्रेति ॥ न चात्राप्रस्तुतप्रशंसा शङ्कनीया प्रस्तुतस्याप्यभिधानादिति । इत्थं चाधाराधेयान्यतरस्य तनोरप्याधिक्यवर्णन मिति सामान्यलक्षणं बोव्यम् ॥९६॥ इत्यधिकालंकारः॥४१॥
- ↑ ’तदपि वयेते'