पूर्वन्न कारणस्वभावानुरूप्यं कार्यस्यान्नागन्तुकतदीयदुष्टसंसर्गानुरूप्यमिति भेदः ॥ १२॥
इदं सममनिष्टस्याप्यवाप्तिश्चेत्यपिसंगृहीतस्य त्रिविधस्यापि विषमस्य प्रतिद्वन्द्वि । इष्टावाप्तेर निष्टस्याप्रसङ्गाञ्च । अत्र गजार्थितया राजानमुपसर्पन्तं तद्वौवारिकैवीर्यमाणं प्रति नर्मवचनमुदाहरणम् । नचात्र निवारणमनिष्टमापन्नमित्युदाहरणत्वं शङ्कनीयम् । राजद्वारि क्षणनिवारणं संभावितमिति तदङ्गीकृत्य प्रवृत्तस्य विषमालंकारोदाहणेष्विवातर्कितोत्कटानिष्टापत्त्यभावात् । किंच यत्रातर्कितोत्कटानिष्टसत्त्वे क्ष्लेषमहिम्ना इष्टार्थत्व[३]प्रतीतिस्तत्रापि समालंकारोऽप्रतिहत एव ।
|
उञ्चैर्गजैरटनमर्थयमान एव |
अन्न यद्यपि व्याजस्तुतौ स्तुल्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारस्तथापि प्राथमिकस्तुतिरूपवाध्यविवक्षायां समालंकारो न निवार्यते । एवं
आदौ हालाहलरूपेण हुतभुजाग्निना दत्तो हस्तावलम्बो यस्य सः। निटिलं ललाटं तत्संबन्धिमहसा नेत्राग्निना बद्वया संबद्धया मैत्र्या निरूढः प्रसिद्धः । प्रौढो युवा राहोर्मुखसंबन्धिभिविषैरन्तरङ्गीकृतः । ग्रहणकाले संपर्कातिशयादन्तङ्गतां प्रापित इत्यर्थः । अत्र कार्यस्य तापस्य कारणीभूतचन्द्रगतदुष्टसंसर्गानुरूपत्वम् ॥ ९२ ॥ मेदान्तरमाह-विनेति ॥ अनिष्टं विना यमर्थ कर्तुमुद्यतस्तत्सिद्धिरपि सममित्यनुवृत्त्या योज्यम् । यदर्थमिति पाठे यश्चासावर्थश्चत्यर्थः ॥युक्त इति ॥ वारणं निवारणम् । वारणो युक्त्तो न स्यादपितु स्यादेवेत्यर्थः । शोभत इति क्कचित्पाठः साधुरेव । अपिसंगृहीतस्यापिशब्दसंगृहीतस्य । नर्मवचनं परिहासवचनम् । अत्रेष्टावाप्तिः क्ष्लेषकल्पिता ब्रोध्या ॥ इष्टार्थत्वप्रतीतिरिति ॥ इष्टार्थत्वेन प्रतीतिरित्यर्थः ॥ अप्रतिहत इति ॥ अनिष्टस्येष्टाभिन्नत्वेन ज्ञानकालेऽनिष्टत्वेनाप्रतिभासादिति भावः ॥ उचैरिति ॥ गजैरटनं तदारोहणपूर्वकं गमनम् । इह त्वन्नगरे उषितोऽस्मि वासं कृतवानस्मि । तदेव मत्प्रार्थ्यमानमेव । उच्चाटनं दूरनिरसनमेव । उच्चैर्गजैरटनं प्रति मां लम्भयसे प्रापयसि । हि यस्मात् महतां सेवा विफला न भवतीति मुखे स्तुतिः । ततो दूरनिरसनमेवार्थान्तरपरिग्रहण विषमालंकारस्फूर्त्या निन्दायां पर्यवसितम् । एतेन वैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तथापवाद इति निरस्तम् । विषमस्य निन्दामूलत्वेन तद्रूपलाभा-