पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


भवन्तमथवा दोषं नयत्यत्याज्यतामसौ। मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराकुरैः ॥ ४२ ॥ अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् । तव दुग्धाब्धिसंभूते कथं जाता कलङ्किता ॥४३॥ कवीनां समयाद्विद्याविरुद्धो दोषतां गतः। द्धार गौरी हृदये देवं हि-मकराङ्कितम् ॥ ४४ ॥ अत्र श्लेषोद्यान्नैव त्याज्यं हीति निरर्थकम् । जयदेवकविवरविरचिते चन्द्रालोके दोषनिरूपणो नाम द्वितीयो मयूखः ।। तृतीयो मयूखः ३ अथ लक्षणानि- अन्त्याक्षरा विचित्रार्थख्यातिरक्षरसंहतिः। उषाकान्तेनानुगतः शूरः शौरिरयं पुनः॥१॥ शोभाख्यातोऽपि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दति संसारं कंसारियंत्र पूज्यते ॥२॥ अमिमानो विचारश्चेहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीनः सूर्यो यदि कथं निशि ॥ ३॥ हन्तुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् । नेन्दुर्नार्कोऽयमौग्निः सागरादुत्थितो दहन ॥४॥ प्रतिषेधःप्रसिद्धानां कारणानामनादः। न युद्धे न भुवोः स्पन्दे नैव धीरा निवारिताः ॥ ५ ॥ निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् । ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ ६ ॥ स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रग्रथितां नभः पुष्पसजं वह ॥ ७ ॥ सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलधि लैः॥८॥ युक्तिविशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदःकोऽपि स्वर्ण वर्षसि यन्मुहुः ॥९॥ कार्य फलोपलम्भश्चेद्यापाराद्वस्तुतोऽथवा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥ १० ॥ । अत्र स्वर्णपदेन कनकं पक्षे सुष्ठु अर्णः उदकम् । २