सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
व्याजस्तुत्यलंकारः ३०] अलंकारचन्द्रिकासहितः।


पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थ नीवीविस्टेसनच्याजेन स्वेष्टसाधनमिति भेदः ॥ ६९॥


व्याजस्तुत्यलंकारः ३०

उक्तिर्व्याजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः।
कः स्वर्धुनि विवेकस्ते []पापिनो नयसे दिवम् ॥ ७० ॥
साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७१ ॥

 निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वर्धुनीत्युदाहरणे विवेको नास्तीति निन्दाध्याजेन गङ्गा सुकृतिवदेव महापातकादिक्रतवतोऽपि स्वर्ग नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्ततिः । साधु दूतीत्युदाहरणे मदर्थे महान्तं क्लेशमनुभूतवत्यसीति ब्याजरूपया स्तुत्या, मदर्थं न गतासि किंतु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्धकारिणीमिति निन्दावगम्यते । यथावा----

कस्ते शौर्यमदो योद्धं त्वय्येकं सप्तिमास्थिते ।
सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥
अर्धे दानववैरिणा गिरिजयाप्यर्घ शिवस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्वां मां च भिक्षाटनम् ॥


उक्तिरिति ॥ अत्र निन्दास्तुतिभ्यामिति स्तुतिनिन्दयोरिति चेतरेतरयोगो न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुत्वा स्तुतेश्चोक्तिरभिर्व्याक्त्तिर्व्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोक्जरूपा स्तुतिरिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्यक्तिया॑जनिन्दाख्यमलंकारान्तरमित्यग्रे वक्ष्यते । अत एवमाद्ये प्रकारद्वये स्तुतिनिन्दयोः समानविश्यवभिन्न विषयलाभ्यां प्रत्येकं द्वैविध्यामिति चत्वारो मेदाः। अन्त्यस्तु भिन्न विषयसुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दामिन्नत्वे सति स्तुति निन्दान्यतरपयवसायिस्तुतिनिन्दान्यतरत्वं सवोमुमतं बोध्यम् ॥ कस्त इति ॥ नृपं प्रति कवेरुक्तिः। त्वयि योद्धुमेकं सप्तिमश्वमास्थिते आरूढे सति परिपन्थिनः शत्रवः सप्ताश्वसमारूडा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः। त्वया संमुखाहताः सूर्यमण्डलं भित्त्वा दिवमुपगता इति तुतौ पर्यवसानम् ॥ अर्धमिति ॥ शिवस्य देहाध दानवानां वैरिणा हरिणा आहृतम् । हरिहरात्म-


  1. पापिनं नयसे'