पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ कुवलयानन्दः । [ पर्यायोक्तालंकारः २९ वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहितः। लोकं पश्यति यस्याडिस यस्यानि पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ।। अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्याम- भिहितौ । यथावा- . . निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् । पादौ कियङ्करमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ अन्न कियडूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा---- देवं वन्दे जलधिशरधिं देवतासार्वभौमं । व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः। भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी शाटीपालाः शतमखमुखाश्चन्दनदुर्मनोभूः ॥ खपदं व्यङ्ग्यपरम् । चच व्यङ्ग्यस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका- रभेदात् । तदुक्तम्-'यदेवोचते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोंच्यते' इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । खासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छे- दकारिलरूपव्यङ्ग्यमादायैव' पर्यायोक्तं वक्तुमर्ह नतु विशेषणसामर्थ्यलभ्यं वासुदेवखमादायेति । तदचुक्तम् । राहुशिरश्छेदकारिखस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्य प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् । 'राहुस्त्रीकुचनैष्फत्यकारिणे हरये नमः' इत्यत्र तु राहशिरश्छेदकारिखमेव विव- क्षितं व्यङ्ग्यामिति युक्त, तदादाय पर्यायोक्तमिति विभावनीयम्॥ लोकमिति॥ यस्याक्षपादस्याङ्ग्रिलोकं पश्यति । अथ च स लोको यस्य पतञ्जलेः शेषावतार- स्था न पश्यति उरगलात् । ताभ्यामक्षपादपतजलिभ्यामपरिच्छेद्या अना- कलनीया ।निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः कर्तृ । शिरीषकलिकामृदुखाभिमानमपनयन्तौ इमी पादौ कियहरप- र्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतनिवेद्यताम् । कथ्यतामित्यर्थः॥ देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जल- धिरेव शरधिस्तूणो यस्य तथाभूतम् । त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्ति- स्थानलात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्ठोऽग्यो येषां ते व्यास- प्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति । पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणलात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रो- द्वमाधारलात् । शतमख इन्द्रतत्प्रमुखा अन्यादयो दिक्पालाः शाटीपालना- विकृताः दिगम्बरत्वेन दिशामेव शाटीरूपखात्। मनोभूश्चन्दनतरः चन्दनस्था-