वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहितः।
|
लोकं पश्यति यस्याङ्घ्रि यस्याङ्घ्रि न पश्यति । |
अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ । यथावा----
|
निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् । |
नस्ते ॥
अत्र कियडूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा----
|
देवं वन्दे जलधिशरधिं देवतासार्वभौमं । |
स्वपदं व्यङ्गयपरम् । नच व्यङ्गस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका- रभेदात् । तदुक्तम्-'यदेवोच्चते तदेव व्यङ्गयं यथा तु व्यङ्गयं न तथोंच्यते' इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छेदकारिलरूपव्यङ्ग्यमादायैव' पर्यायोक्तं वक्तुमर्ह नतु विशेषणसामर्थ्यलभ्यं वासुदेवखमादायेति । तदचुक्तम् । राहुशिरश्छेदकारित्वस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्गयं प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् । राहुस्त्रीकुचनैष्फत्यकारिणे हरये नमः' इत्यत्र तु राहुशिरश्छेदकारित्वमेव विवक्षितं व्यङ्ग्यामिति युक्त, तदादाय पर्यायोक्तमिति विभावनीयम्॥ लोकमिति॥ यस्याक्षपादस्याङ्घ्रिर्लोकं पश्यति । अथ च स लोको यस्य पतञ्जलेः शेषावतारस्थाङ्घ्रि न पश्यति उरगत्वात् । ताभ्यामक्षपादपतजलिभ्यामपरिच्छेद्या अनाकलनीया ॥ निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः कर्तृ । शिरीषकलिकामृदुखाभिमानमपनयन्तौ इमी पादौ कियहूरपर्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतन्निवेद्यताम् । कथ्यतामित्यर्थः॥ देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जलधिरेव शरधिस्तूणो यस्य तथाभूतम् । त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्तिस्थानलात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्ठोऽग्यो येषां ते व्यासप्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति । पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणलात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रोद्वमाधारत्वात् । शतमख इन्द्रतत्प्रमुखा अग्न्यादयो दिक्पालाः शाटीपालनाधिकृताः दिगम्बरत्वेन दिशामेव शाटीरूपत्वात्। मनोभूश्चन्दनतरुः चन्दनस्था-