सामग्री पर जाएँ

पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः ।


दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां
 तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥

 अत्र नायिकाया बिरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणालमालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः । यन्न कार्यमुखेन कारणस्यावगतिरपि क्ष्लोके निबद्धा न तत्रायमलंकारः किंत्वनुमानमेव । यथा--

परिम्लानं पीनस्तनजघनसङ्गादुभयत-
 स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं []प्रशिथिलभुजाक्षेपवलनैः
 कृशाङ्याः संतापं वदति नलिनीपत्रशयनम् ॥ ६७॥


पर्यायोक्तालंकारः २९

पर्यायोक्तं तु ग[]म्यस्य वचो भङ्गयन्तराश्रयम् ।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥

 यदेव गम्यं विवक्षित तस्यैव भङ्गयन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा-


ण्डं मृङ्गेभ्यो विशेषरहितां तत्समा रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिक श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राप्नोति । तथा कुचयोर्दत्ता निहितेयं हिमत्नालुका कर्पूर क्षणं दीपरूपतां वत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलवत्संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धनत्वं व्यकम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः। अयमित्युपलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत आह–किंत्विति ॥ परीति ॥ रत्नावल्यां स्वविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशाङ्गय् संतापं वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसङ्गादुभयत ऊर्ध्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तमध्यभागे हरितवर्णम् । एवं प्रकर्षेण शिथिलयोर्भुजयोराक्षेपैर्वलनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशामिति ॥ ६७ ॥ इति प्रस्तुताङ्कुरप्रकरणम् ॥ २८॥

 ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुताङ्करविषयश्चेत्किं तर्हि पर्यायोकमित्याकाङ्खायामाह-पर्यायोक्तमिति॥ वचः प्रतिपादनं । भङ्गयन्तराश्रयं भन्यन्तरप्रकारकम् ॥ लक्षणं परिष्कुरुते यदेवेति ॥ तथाच विवक्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यक्यस्याभिधानं पर्यायोक्तमिति लक्षणम् । पर्यायेण भजयन्तरेणोक्तमभिहितं व्यङ्गयं यत्रेति व्युत्पत्तेः । लक्षणे


  1. क्ष्लषभुजलताक्षेप'
  2. 'गम्यश्चैद्वची भङ्गयन्तराश्रयः'