पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तुताङ्कुरालंकारः२८] अलंकारचन्द्रिकासहितः । मानशालिन्याः क्रूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्थापहर- णसंकल्पदरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमान प्रियतम प्रत्युपालम्भो छोयते । यथावा- अन्यासु तावदुपमर्दसहासु भूङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः ॥ अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुत- स्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयति कामिनि शृण्व- ति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते । यथावा--- कोशद्वन्द्वमियं दधाति नलिनी कादम्बचचुक्षतं धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् । इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्सटे चैलान्तेन तिरोदधे स्तनतट बिम्बाधरं पाणिना॥ अन्नेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे खयमेव कवि- नाविष्कृतम् । अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः-अन- स्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तत्राभिधायामपर्यव- . सितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्रा- भिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिनिरेवेति । वस्तु- वेश्यायामिति व विषयसप्तमी । तद्विषय इत्यर्थः । विटानां सर्वखाहरणे यः संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम् ॥ अन्येति॥ हे भृङ्ग,अन्यासूपमर्दक्षमासु सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति। लोकं चपलं मनो विनोदय । लोकमिति क्रियाविशेषणं वा । नवमल्लिकाया लता- विशेषस्य बालामभिनवामसंजातरजस्कां ऋलिकामकाले व्यर्थ किमिति कदर्थय- सि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च ॥ शृण्वतीति ॥ एतद्- चनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकु- लयुगलं कादम्बस्य हंसस्य चञ्चवा क्षतं कृतक्षतं दधाति धत्ते, तथेयं चूतस्याम्र- स्य लता नूतनं पल्लवं पुरूपैः को किलराखादितं चर्वितं धत्त इति दीर्घिकाया बा- प्यास्तटे मिथः परस्परं सखीजनस्य वच आकयं सा प्रस्तुता नायिका कमल- मुकुलाम्रपलवव्याजेनैता मदीयवनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञाखा चैलस्य वस्त्रस्यान्तेन प्रान्तेन स्तनतट तिरोदधे, बिम्बरूपमधरं च पाणिना तिरोध आच्छादितवतीत्यन्वयः ॥ अन्यापदेशेति ॥ अन्यस्यापदेशो मिषं यत्र ताह- शमित्यर्थः । तदीयमेव ग्रन्थं दर्शयति-अप्रस्तुतेत्यादि । व्यवस्थापित-