पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५२]
४३
तारकनाशार्थं सेनानीसृष्टावनुरोधः

 तदेव प्रतिहतक्रियत्वमाह-

  जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
  हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ।। ४९ ॥

 जयाशेति ॥ किंचेति चार्थः । नूनमनेन हरिचक्रेण वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा, आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थिताचिषोद्गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्टे निष्कमुरो भूषणमर्पितमिवेत्युत्प्रेक्षा, स्वयमेव निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः। 'साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री' इत्यमरः ॥ ४९ ॥

  तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
  अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ ५० ॥

 तदीया इति ॥ अद्य संप्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेयु तोयदेषु मेघेषु तटाघातं वप्रक्रीडामभ्यस्यन्ति ॥ ५० ॥

  तदिच्छामो विभो ! स्रष्टुं सेनान्यं तस्य शान्तये ।
  कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ।। ५१ ॥

 तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन् ! मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित् तं धर्ममिव, आत्मज्ञानहेतुभूतमिति शेषः। 'तमेव विदित्वातिमृत्युमेति' (श्वेता०३६८) इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमपतिः । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः, वयमिति शेषः ॥ ५१ ॥

 सेनानीसृष्टेः फलमाह--

  गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
  प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ।। ५२ ।।


पाठा०-१ निष्कः. २ अर्पितः. ३ तटाघातान्.


टिप्प०-1 "स्रष्टुम्" इति वा पाठे त्वयेति शेषः । “स्त्रष्टुं" इति केचनापपाठं

मन्यन्ते' इति बाल०।