पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[ सर्गः २
कुमारसंभवे

  भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
  खिलीभृते विमानानां तदापातभयात्पथि ॥ ४५ ॥

 भुवनेति ॥ तस्य तारकस्यापातात् समापत्तेर्भयाद्विमानानां पथि खिलीभूते अप्रहतीभूते सति । 'द्वे खिलाप्रहते समे' इत्यमरः । स्वर्गिभिर्देवैर्भुवनानामालोकने प्रीतिर्नानुभूयते ॥ ४५ ॥

  यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
  जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ ४६॥

 यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप् (पा.३।२।१०३) इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादिनिप्रत्ययः। स तारको नोऽस्माकं मिपतां पश्यताम् , पश्यत्सु सत्स्वित्यर्थः । 'षष्ठी चानादरे' (पा.२।३।३८) इति षष्टी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति, आक्षिप्य गृह्णातीत्यर्थः ॥ ४६ ॥

  उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
  देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥४७॥

 उच्चैरिति ॥ किं चेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैःश्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । अस्य शुभ्रत्वादुस्प्रेक्षते-देहबद्धं बद्धदेहम् , मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । चिरकालार्जितमिन्द्रस्य यश इव । अहार्यपहृतम् ॥ ४७ ॥

 तर्हि सामाद्युपायास्तत्र कथं न प्रयुक्ता इत्यत्राह--

  तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
  वीर्यवन्त्यौपधानीव विकारे सांनिपातिके ॥४८॥

 तस्मिन्निति ॥ क्रूरे घातुके । 'नृशसो धातुकः क्रूर' इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । 'संनिपाताच' (वा० ३०३४) इति वक्तव्याट्ठक् । वीर्यवन्ति सारवन्त्यौ- षधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति ॥ ४८॥


पाठा०-१ पिबताम्.

1