पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३७-४४]
४१
तारकासुरकृतलोकोपद्रवनिवेदनम्

  तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
  अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ।। ४१ ॥

 तेनेति ॥ तेन तारकेणामरवधूहस्तेः, सुकुमारैरिति भावः । तैरपि सदयमालूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि पष्ठी । क्रियन्ते ॥ ४१॥

  वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
  चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ।। ४२ ॥

 वीज्यत इति ॥ हि यस्मात्कारणात्स तारकः संसुप्तः सन् । श्वाससाधारणो निःश्वाससमानोऽनिलो येषां तैः, ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः। बाष्पशीकरवर्षिभिः, तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरबन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । 'प्रग्रहापग्रहौ बन्द्याम्' इत्यमरः । चामरैर्वीज्यते ॥ ४२॥

  उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।
  आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ ४३ ॥

 उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वानाम् । 'हरित् सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि' इति विश्वः । खुरैः शर्फः क्षुण्णानि चूर्णितानि । एतेन तेषामत्योन्नत्यं सूचितम् । मेरुशृङ्गाण्युत्पाव्य स्वंपु वेश्मसु । 'वेश्मसु' इति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः। आक्रीडन्त एप्वित्याक्रीडाः, ते च ते पर्वताः कल्पिताः कृताः ॥ ४३ ॥

  मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
  हेमाम्भोरुहशस्यानां तद्वाप्यो धाम सांप्रतम् ॥४४॥

 मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव शिष्यत इति शेषं शिष्टम् । कर्मणि घञ्प्रत्ययः ।'-त्रिष्वन्यत्रोपयुज्यते' इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह-हेमेति । हेमाम्भोरुहाण्येव शस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाठ्य स्वदीर्धिकास्वेव प्रतिरोपितवानित्यर्थः॥४॥


पाठा०-१ हस्तसदया.