पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४२-४६]
२१
हिमालयवर्णनम्

स्मितस्यानुकुर्यात् , स्मितमनुकुर्यादित्यर्थः । अत्र 'माषाणामश्नीयात्' इतिवत्संबन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबधोक्त्यातिशयोक्तिः । सा च 'संभावना' इत्यलंकारसर्वस्वकारः। विशेषतस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम् ( अलं. स.)--'उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः' इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ॥ ४४ ॥

स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥४५॥

 स्वरेणेति ॥ अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्रुतामृतस्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्तरि क्तः । अन्यैः काकादिभिः पुष्टाऽन्यपुष्टा कोकिलापि । मुख्यया वृत्त्या जातिवचनत्वाभावान्ङीवभावः । ताड्यमाना वाद्यमाना विपमबद्धा तन्त्रीवितन्त्रीरिव । 'अवितृस्तृतत्रिभ्य ई:' (उ० ४३८) इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न 'हल्ङ्याभ्यः-' (पा.६।१।६८) इति सुलोपः । तदुक्तम् –'अवीलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥' इति । एते डीबन्ता न भवन्तीत्यर्थः। श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः ॥ ४॥

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥४६॥

 प्रवातेति ॥ प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो निर्विशेषं निर्भेदम् ,


पाठा०-१ अन्यपुष्टाः.२ शब्दाः.३ कर्णद्वयस्थं नगराजपुत्र्यास्ताटङ्कयुग्मं सुतरां रराज । मत्वा भवित्रीं त्रिपुरारिपत्नीं तो सेवमानाविव पुष्पवन्तौ ॥ (१ नितरां बभास. २ ज्ञात्वा. ३ सेवासमेतो.) टिप्प.-1 'अत्र यदि-शब्दबलादसिद्धार्थस्य कल्पनात् “यद्यथोक्तौ च कल्पनम्" इत्युक्तोऽतिशयालंकारः' इति नारायण० । 2 'अत्र "अमृतस्रृतेव" इत्युत्प्रेक्षा माधुर्यसौकुमार्यादिगुणैः परभृताविरुताद्देवीसंजल्पितस्य व्यतिरेकं द्योतयति । "प्रतिकूल' शब्दश्च

तमभिद्योतयतीति व्यतिरेकालंकारो ध्वन्यते' इति नारायण०।