पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ सर्गः १
कुमारसंभवे

मिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । 'दिवाविभानिशाप्रभाभास्कर-' (पा. ३।२।२१) इत्यादिना टप्रत्ययः । 'भीत्रार्थानां भयहेतुः' (पा. १।४।२५) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते। ननु क्षुद्रसंरक्षणमनहमित्याशङ्कयाह-क्षुद्र इति । उच्चैःशिरसा- मुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः, अस्तीति शेषः । 'मम'शब्दात्त्वप्रत्ययः। अर्थान्तरन्यासोऽलंकारः ॥ १२॥

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः॥१३॥

 लाङ्गूलेति ॥ चमर्यो मृगीविशेषाः। इतस्ततो लाङ्गलानि वालधयः । 'पुच्छोऽस्त्री लोमलाङ्कले वालहस्तश्च वालधिः' इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभैः । 'गौरः करीषे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च' इति यादवः । 'उपमानानि सामान्यवचनैः' (पा. २१११५५) इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रे- गिरिराजशब्दं 'गिरिराज' इति नामार्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः॥ १३ ॥

यत्रांशुकाक्षेपविलञ्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति ॥१४॥

 यत्रेति ॥ यत्र हिमाद्रौ, अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुपाङ्गनानां किंनरस्त्रीणां यदृच्छया देवगत्या दरीगृहद्वारेषु विलम्बिविम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । 'तिरसोऽन्यतरस्याम्' (पा. ८।३।४२) इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः॥१४॥


पाठा०-१चान्द्र. २ द्वारि.


टिप्प०-1 अयं श्लोको मम्मटेम दूषित:-'अत्राचेतनस्य तमसो दिवाकरात्रासो न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभा-

समानस्यास्य न काचिदनुपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्न इति ।