पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ सर्गः १
कुमारसंभवे

दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति, अन्तर्लीयत इत्यर्थः । न हि स्वल्पो दोषोऽमितगुणाभिभावकः, किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते; अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः। तल्लक्षणं तु-(काव्या.२११६९) 'ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ इति दण्डी ॥ ३ ॥

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥

 यश्चेति ॥ किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । 'विभ्रमस्त्वरयाऽकाले भूषास्थानविपर्यये' (द० रू० २।३९) इति दशरूपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतद्धातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्तीति भावः। तथात्वे भ्रान्तिमदलंकारोव्यज्यते । 'कर्तृकर्मणोः कृति' (पा.२।३।६५) इति कर्मणि षष्ठी । वारिणां वाहका बलाहकाः। पृषोदरादित्वात्साधुः। तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः 'समासकृत्तद्धितेषु संबन्धाभिधानं भावप्रत्ययेन' इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकाल प्राप्तसंध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र 'संध्या'शब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥४॥

आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥५॥


पाठा०-१ छायामिषे सानुगताम् ; छायामधः सानुगता। टिप्प०---1 नारायणपण्डितस्तु 'वस्तुतस्त्वत्र विकस्वरालङ्कार एव । यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावाप्यपरितुष्यता कविना तत्समर्थनाय

पुनर्विशेषान्तरन्यासविधया विन्यस्यते तत्र विकस्वरालङ्कारः।' इत्याह ।