पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्लो० २-३]
हिमालयवर्णनम्

(पा.१।२।६९) इत्यादिना नपुंसकैकशेषः। रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते' इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च । क्षीरत्वेन परिणता इति शेषः । 'ताः क्षीरपरिणामिनी:' (१।१३।७८) इति विष्णुपुराणात् । दुदुहुः । 'दुहियाचि-'(वा० १०९०।११००) इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां 'पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- 'गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥' इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नविशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगितानामालंकारः । तदुक्तम्-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या, तेषामारोपहेतुत्वात् हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ॥२॥

 ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छृित्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह-

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥३॥

 अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्युभयपदवृद्धिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि-एको


टिप्प०-1 श्लोकार्धमिदं दूषितं केनचिद्दारिद्द्र्य पीडितेन कविवराकेण-एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे। नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषोगुणराशिनाशी' इति ।