पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ सर्गः १
कुमारसंभवे

योग्यत्वः । हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति सूचितम् प्रसिद्धः। अधिको राजाधिराजः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) । न गच्छन्तीति नगा अचलाः, तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः ? पूर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य, अत एव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् तस्य दण्डः । यद्वा,-मीयतेऽनेनेति मानम् । करणे ल्युट्, स चासौ दण्डश्च स इव स्थितः, आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः। पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे- 'कैलासो हिमवांश्चैव दक्षिणे वर्षपर्वतौ । पूर्वपश्चायतावेतावर्ण वान्तर्व्यवस्थितौ ॥' अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षालंकारः । 'प्रकृतेऽप्रकृतगुणक्रियादिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः । क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' । 'उपेन्द्रवज्रा जतजास्ततो गौ'। 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति ॥ ३॥

 इतः परं षोडशभिः श्लोकैर्हिमालयं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह-

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।।२।।

 यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' (पा.२|१|४९) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । 'यस्य च भावेनभावलक्षणम्' (पा.२।३।३७) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीहत्तया प्रदर्शितां धरित्रीम्, गोरूपधरामिति शेषः। 'गौर्भूत्वा तु वसुंधरा' इति विष्णुपुराणात् । अकथितं च' (पा. १।४।५१) इति कर्मत्वम् ।भास्वन्ति च भास्व त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । 'नपुंसकमनपुंसकेन-


टिप्प०-1 केचित्वत्र 'अनामनगाधिराजः' इति पाठमादृत्य 'नास्ति नामो नमनं यस्येत्यनामः, स चासौ नगाधिराजश्चेति स तथा कर्मधारयः । 'अनाम' सविशेषणेना स्योन्नतिमत्त्वमुक्तम्' इत्याहुः । अत्र २ 'अस्ति'पदस्यादौ प्रयोगात्तेनैव परमात्मनः प्रतिपादनाच्च मङ्गलमाचरितवान्कालिदास इत्यवसेयम् ।