पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४६-४९]
३६९
कुमारेण तारकं प्रति शक्तिमोचनम्

विधायीत्यर्थः । देवोऽपि कुमारोऽपि बाणैः शरैः सचापं सकोदण्डं दैत्यस्य तारकस्य विशिखानां शराणां प्रकरं समूहं योगविधिना योगाभ्यासविधानेन शुष्कमना नीरसमनाः । निःस्पृहचेता इति तात्पर्यार्थः । योगी यमाद्यैर्यमनियमप्रभृतिभिर्योगसाधनैः कृत्वाऽमोघवीयं योगिनामपि मनःसंभ्रान्तिकरणे सफलप्रभावं सांसारिकं संसारः प्रयोजनमस्येति तथोक्तम् । प्रयोजने टक् । विषयसंघ चक्षुरादिकरणोपभोग्यसमाहारमिव कणशश्चकन बिभेद । यथा योगाभ्यासनिरतो यमनियमपूर्वेश्चक्षुरादिकरणभोग्यं दर्शनीयादिकरणवस्तु कृन्तति, तथा कुमारोऽपि यमनियमवत्तीवैर्बाणैर्विषयसंघमिव सफललक्ष्यभेदनक्रियोचितत्वमपि शरनिकरमभनगिति भावः ॥ ४ ॥

  भ्रूभङ्गभीपणमुखोऽसुरचक्रवर्ती
   संदीप्तकोपदहनोऽथ रथं विहाय ।
  क्रीडत्करालकरवालकरोऽसुरेन्द्र-
   स्तं प्रत्यधाबदाभितत्रिपुरारिसूनुम् ।। ४८ ॥

 भ्रूभङ्गेति ॥ अथ शस्त्रास्त्रयुद्धानन्तरं सम्यगधिकं यथा तथा दीप्तः कोप एव दहनोऽग्निर्यस्य । अत एव र्भ्रुवोर्भ्र्कुठ्योर्भ्ंङेन वक्रत्वेन भीषणं विलोकयितॄणां भयदं मुखं वदनं यस्य तथोक्तोऽसुराणां दैत्यानां चक्रवर्ती सम्राट् । सार्वभौम इत्यर्थः । 'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः' इत्यमरः । असुरेन्द्रस्तारको रथं स्यन्दनं विहाय परित्यज्य क्रोडन्नधैर्यदिशि कम्पमानस्तथा करालो भीषणः करवालः स्वंङः स करे पाणौ यस्य, धारितविकटकृपाणः सन्नित्यर्थः । तं त्रिपुरारिसूनुं शिवपुत्रमभितः संमुखं प्रत्यधावत् , कुण्ठितसर्वशस्त्रास्त्रत्वात्करवालेन शिरोनालजिहीर्षया प्रतिदुद्रा- वेत्यर्थः । 'धावु गतौ' इत्यस्मात्कर्तरि लङ् ॥ ४८ ॥

  अभ्यापतन्तमसुराधिपमीशपुत्रो
   दुर्वारबाहुविभवं सुरसैनिकैस्तम् ।
  दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
   शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ ४९ ।।

पाठा०-१ दधानश्चर्माभ्यधावत् . २ पुत्रम्. ३ अमुरेश्वरम्. ४ तैः.

२४कुमं स्ं


२४ कु० सं०