पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४३-४५]
३६७
पाशोन्मुक्तदेवानवलोक्य तारकक्रोधोद्दीपनम्

म्बिनी'शब्दः केवलमालापरः । तदुक्तम् – 'विशिष्टवाचकानां पदानां सति हि पृथग्विशेषणसमवधाने विशेष्यमानपरता' इति ॥ ४३ ॥

  व्योम्नस्तलं पिदधतां ककुभां मुखानि
   गर्जारवैरविरतैस्तुदतां मनांसि ।
  अम्भोभृतामतितरामनणीयसीभि-
   र्धारावलीभिरभितो ववृषे समूहैः ॥४४॥

 व्योम्न इति ॥ व्योम्न आकाशस्य तलं स्वरूपम् । 'तलं स्वरूपाधरयोः खगमुष्टिचपेटयोः' इति विश्वः । तथा ककुभां दिशां मुखान्यप्राणि च पिदधतामाच्छादयताम् । 'पिधानाच्छादनानि च' इत्यमरः । तथाऽविरतैर्निरन्तरभवद्भिर्जारवैर्गर्जनाघोस्स्षैःकृत्वा मनांसि तुदतां व्यथयतामम्भोभृतां जलधराणां समूहैः कर्तृभिः । अनणीयसीभिरणीयस्योऽतिलघ्व्यो न भवन्ति तथोक्तामिः, महतीभिरित्यर्थः । धारावलीभिः संपातपतिङ्तिभिः कृत्वातितरां ववृषे वृष्टम् । भावे लिट् ॥ ४४ ॥

  घोरान्धकारपटलैः पिहिताम्बराणां
   गम्भीरगर्जनरवैर्यथितासुराणाम् ।
  वृष्ट्या तया जलमुचां वरुणास्त्रजानां
   विश्वोदरंभरिरपि प्रशशाम वह्निः ॥४५॥

 घोरेति ॥ घोराणि भयदानि यान्यन्धकारपटलान्यन्धतमसपटलानि तैः कृत्वा पिहिताम्बराणामावृतगगनानाम् । तथा गम्भीरगर्जनस्वैः कृत्वा व्यथिताः पीडिता असुरा यैस्ते वरुणास्त्रजानां वरुणदेवतास्त्रोत्पन्नानां जलमुचां मेघानाम् ।

पाठा०-१ अविततैः. २ बैह्वीयसाधितकराः सहसा रसेन घ्नन्त्यस्तटे निजकुले- ऽप्येसुरप्ररूढे । मेघान्धकारपटलीपिहिते नभोन्ते नद्यः प्रचेलुरभितः प्रेमदा इवाढ्याः ॥ ३ आलावितो बहुभवोऽपि हताम्बराणां गम्भीरगर्जनिपतद्विधुरासुराणाम् ; आप्लाविता- हवभुवा विहिताम्बराणां गम्भीरगर्जितपतद्विधुरासुराणाम्. ४ अथ.

(१ बहीयसा. २ इव सुप्ररूढे. ३ प्रमदाहवाय.)