पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३४-३७]
३६३
वायव्यास्त्रपरिहारेऽग्न्यस्त्रप्रयोगः

यैरेवंभूता धनधूमसंघा निबिडधूमसमृहा अखिलं घटादिवस्तु दृग्गोचरत्वं दृष्टि- विषयत्वं न हि नैव । 'हि पादपूरणे हेतौ विशेष्येऽप्यवधारणे' इति विश्वः । नयन्तः प्रापयन्तः सन्तः, घनधूमसंघव्यायैव हि किंचिदपि वस्तु लक्षणीयं बभूवेति भावः । सद्यः सपदि प्रसस्त्रः । प्रज्वलिप्यद्दहनप्राग्भावित्वेन धूमप्रसरण्स्यो चितत्वाध्दूमप्रसरणमुक्तम् । प्रपूर्वात् 'सृ गतौ' इत्यतो लिट् ॥ ३५ ॥

  दिक्चक्रवालगिलेनैमलिनैस्तमोभि-
   र्लिप्त नभःस्थलमलं घनवृन्दसान्द्रैः ।
  धूमैर्विलोक्य मुदिताः खलु राजहंसा
   गन्तुं सरः सपदि मानसमीपुरुच्चैः ॥ ३६ ॥

 दिगिति ॥ दिशां चक्रवालस्य मण्डलस्य गिलनैराच्छादकैः । 'गृ निगरणे' इत्यतः कर्तरि ल्युट् । 'अचि विभाषा' (पा. ८।२।२१ ) इति रेफस्य लत्वम् । तथा मलिनैर्मेचकैः, अत एव घनवृन्दमिव मेघमण्डलमिव सान्द्रैः सघनैर्धूमैर्धूमरूपैस्त मोस्भिर्लिप्तं व्याप्त नभःस्थलं विलोक्य दृष्ट्वा मुदिताः प्रसन्ना राजहंसाः सपदि सद्य उच्चैर्महन्मानसं सरः पल्वलं गन्तुमीपुरैच्छन् , दहनास्त्रप्रभूतधूमावलीव्याप्तन नभोदर्शनजनितमेघागमभ्रान्तिमतां कलहंसानां मानससरोजिगमिषोचितैवेति भावः ॥ ३६ ॥

  जज्वाल वह्निरतुलः सुरसैनिकेषु
   कल्पान्तकालदहनप्रतिमः समन्तात् ।
  आशामुखानि विमलान्यखिलानि कीला-
   जालैरलं कपिलयन्सकलं नभोपि ॥ ३७॥

 जज्वालेति ॥ कल्पान्तकालस्य प्रलयकालस्य दहनोऽग्निस्तस्य प्रतिमेव प्रतिमा स्वरूपं यस्य । तथाऽतुलो बहुलो वह्निः कीलाजालैर्ज्वालासमूहैः । 'वह्नेर्द्वयॉज्चालकील शिखा स्त्रियाम्' इत्यमरः । अखिलानि समस्तानि विमलानि शुद्धान्याशामुखानि 'दिगग्राणि । तथा सकलं नभोऽपि व्योम चालं

पाठा०-१ मिलितैः. २ नभस्तलम्. ३ पिहिताः. ४ अपिदधन्निखिलानि.

५ कपिशयन्.