पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८-११]
३४९
पाशोन्मुक्तदेवानवलोक्य तारकक्रोधोद्दीपनम्

कपद्योक्तं सारथिमवोचत जगाद । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः' इत्यमरः ॥ ८-९ ॥

  तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः
   प्रक्षुब्धवारिधरधीरगभीरघोषः ।
  चण्डश्चचाल दलिताखिलशत्रुसैन्य-
   मांसास्थिशोणितविपङ्कविलुप्तचक्रः ॥ १० ॥

 तत्स्यन्दन इति ॥ प्रक्षुब्धः कोपाविष्टः । अनेन प्रलयकालीन इति व्यज्यते, प्रायस्तत्रैव तस्य क्रोधाविष्टत्वदर्शनात् । यो वारिधरो मेघस्तस्य घोष इव धीरो गभीरो घनश्च घोषो यस्य तथोक्तः । तथा दलितं चूर्णीकृतमखिलं समस्तं यच्छत्रुसैन्यं वैरिसैन्यं तस्य मांसमस्थीनि शोणितविपङ्को रुधिरकर्दमश्चेत्येतैर्विलुप्तानि चक्राणि चरणानि यस्य । अत एव चण्डः प्रचण्डस्तत्स्यन्दनस्तारकरथः सपदि । स्वामिनोऽनुशासनक्षण एव, न तु मुहूर्तमात्रं स्थित्वेति भावः । सारथिना संप्रणुन्नश्चलितुं नोदितः सन् । चचाल ॥ १० ॥

  दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-
   कल्पं दलद्बलविरावविशेषरौद्रम् ।
  अभ्यागतं सुररिपोः सुरराजसैन्यं
   क्षोभं जगाम परमं भयवेपमानम् ॥ ११ ॥

 दृष्ट्वेति ॥ प्रलयवातेन युगान्तकालप्रभञ्जनेन चलतोड्डीयमानेन गिरीन्द्रकल्पं गिरीन्द्रेण हिमालयेनेषन्न्यूनम् । हिमालयौपम्यं धवलवसनवेष्टितत्वात् । 'ईषदसमाप्तौ कल्पप्' ( पा. ५।३।६७ ) इति कल्पप्प्रत्ययः । तथा दलतामुपरि वेगपूर्वकवशाच्चूर्णीभवतां बलानां देवसैन्यानां विरावो हाहा हाहेति रुदितं तेन कृत्वा विशेषरौद्रमतिशयभयानकम् । आत्मीयघोरारवरौद्रत्वाश्रयीभूतत्वेऽप्यतिजवप्रपतनचूर्णीकृतसकलसुरसैन्यविहितमहाघोरविरावधारणाजनितरौद्रत्वधारणानुकूलव्यापाराश्रयीभूतमित्यर्थः । तथाऽभ्यागतं संमुखमागतं सुररिपोस्तारकस्य

पाठा०-१ प्रारब्ध. २ चण्डं. ३ शोणितमुपङ्कविलुप्तवेगः; शोणितसपङ्कविलुप्तचक्रः, ४ विराम.