पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
[ सर्गः १७
कुमारसंभवे

 अथ युग्मेनाह-

  उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
   रह्नाय सारथिमवोचत चण्डबाहुः ।
  बद्धा मया सुरपतिप्रमुखाः प्रसह्य
   बालस्य धूर्जटिसुतस्य निरीक्षणेन ॥ ८ ॥

  मुक्ता बभूवुरधुना तदिमान्विहाय
   कर्तास्म्यमुं समरभूमिपशूपहारम् ।
  तत्स्यन्दनं सपदि वाहय शंभुसूनुं
   द्रष्टास्मि दर्पितभुजाबलमाहवाय ॥ ९ ॥

 उद्दीप्तेति ॥ मुक्ता इति च ॥ अथ नागपाशविमोचनानन्तरम् । उद्दीप्तः प्रदीप्तः कोप एव दहनोऽग्निर्यस्य । तथा चण्डौ प्रचण्डौ बाहू यस्य । एवंभूतः सुरेन्द्रशत्रुस्तारकोऽह्नाय झटिति 'भो सारथे ! मया प्रसह्य बलाद्बद्धा नागपाशवशीकृताः सुरपतिप्रमुखा इन्द्रादयो देवा बालस्य शिशोः, न तु यूनः, धूर्जटिसुतस्य शिवपुत्रस्य निरीक्षणेन दर्शनमात्रेण, न तु प्रत्यस्त्रादिप्रयत्नेन, मुक्ता बभूवुः । अनेन शिशुनात्मनिरीक्षणेनैव स्वपक्षवर्तिनो देवा मोचिताः, अतो महाधन्योऽयमिति भावः । तत्तस्मान्मदीयशत्रूणां पक्षवृत्तित्वेन कृतनागपाशमोचनरूपापराधादिमान् पुरोवर्तिन इन्द्रादिदेवान्विहाय परित्यज्य । आहवाय, मया सहाहवं कर्तुमित्यर्थः । दार्पितमभिमानमूलकं भुजाबलं बाहुवीर्यं यस्य, न तु तत्त्वतः, तथाभूतममुं पुरोवर्तिनं शंभुसूनुं द्रष्टास्मि द्रक्ष्यामि । लुट उत्तमैकवचनम् । अथ च समरभूमौ सङ्ग्रामभुवि ये पशवो गृध्रप्रभृतयस्तेषामुपहारमुपदारूपं कर्तास्मि करिष्यामि । प्रागवलोकितमेनमत्र हत्वा सङ्ग्रामभूमिस्थेभ्यो विहंगेभ्योऽत्तुं विभज्य दास्यामीत्यर्थः । तत्तस्माद्देवकार्यत्वात् सपदि सद्य एव स्यन्दनं रथं वाहय प्रापय, अवश्यकर्तव्ये विलम्बानौचित्यादिति भावः । इति सार्धै-

पाठा०—१ उद्यत्प्रकोपदहनोऽथ सुरेन्द्रशत्रुः; उद्दण्डकोपदहनोऽप्यसुरेन्द्रसूनुः. २ अहम्.