पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[ सर्गः १६
कुमारसंभवे

  आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करैः ।
  दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ॥ ३६ ॥

 आक्षिप्येति ॥ करिभिः कर्तृभिः । करैर्दण्डैः कृत्वाक्षिप्योत्थाप्याभिदिवमाकाशसंमुखं नीताः प्रापिताः पत्तयः पादचारिणो रक्ताभिरनुरक्ताभिर्दिव्याङ्गनाभिर्द्रुतं शीघ्रमादातुं ग्रहीतुमीषिरे इष्टा बभूवुः । ‘अहमेतान्ग्रहीष्यामि, अहमेतान्ग्रहीष्यामि' इति त्वरिता बभूवुः ॥ ३६ ।।

  धन्विनस्तुरगारूढा गजारोहाञ्शरैः क्षतान् ।
  प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ॥ ३७॥

 धन्विन इति ॥ तुरगारूढा धन्विनो धनुर्धारिणो योधाः शरैः क्षतान् । अत एव मूर्च्छितान्गजारोहान्यन्तॄन् भूयोऽपि पुनरपि योद्धुमाश्वसतो जीवत एतादृशांश्चिरं प्रत्यैच्छन् , प्रतीक्षन्ते स्मेत्यर्थः ॥ ३७॥

 क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
 निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ॥ ३८ ॥

 क्रुद्धस्येति ॥ पत्तिः पादचारी कश्चिद्योधः क्रुद्वस्यात एव जिघृक्षोर्ग्रहीतुमिच्छोर्दन्तिनः करं दन्तगोरधोभागम् । असिना निर्भिद्य छित्त्वा जिघृक्षया प्रत्युत तस्यैव ग्रहीतुमिच्छया दन्तमुसलावारुरोहारूढवान् ॥ ३८ ॥

  खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
  प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्रुतम् ।। ३९ ॥

 खड्गेनेति ॥ प्रातिपक्ष्ये शत्रुसंवन्धिनि सैन्ये प्रविष्टोऽपि पदातिः पादचारी दन्तिनो गजस्य रदनद्वयं दन्तद्वयं खड्गेन कृत्वा मूलतो मूलाद्धत्वा भित्त्वा द्रुतं निरगान्निश्चक्राम । शत्रुसैन्यप्रविष्टस्य मरणमेव ध्रुवम् , तदस्य विपरीतमभूदित्यपिना द्योत्यते ॥ ३९॥

  करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
  असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥ ४० ॥

पाठा०-१ उत्क्षिप्य. २ वृतमम्बरम् ; व्याप्तमम्बरम्. ३ प्रत्यैक्षन्. ४ करिणः.

५ दन्तमुसलान् ; दन्तमुसलेन. ६ आमूलतः. ७ अङ्गिचतुष्टयम्. ८ प्रपतिष्णोः.