पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १९-२६]
३३७
सुरासुरवीराणां युद्धवर्णनम्

'टुवप् बीजसंताने' इत्यतो निष्ठा । यत्कीर्तिबीजं यशोरूपमहीरुहबीजं तस्याङ्कुरस्तस्य श्रियं शोभाम्, दधुरिति शेषः ॥ २२ ॥

  वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे ।
  शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ २३ ॥

 वीराणामिति ॥ रणे विषमैर्दुःसहैर्वीराणां घोषैर्विद्रुताः पलायिता वारणा गजाः शास्यमानाः शिष्यमाणा अपि, यन्तृभिरिति शेषः । धूताङ्कुशा अपमानिताङ्कुशाः सन्तस्त्रासाद्दिशो भेजुः । तॄफलभज-' (पा. ६।४।१२२ ) इत्येत्वाभ्यासलोपौ । दिशः प्रति पलायांचक्रिरे ॥ २३ ॥

  रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
  निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ॥ २४ ॥

 रण इति ॥ रणे सङ्ग्रामे बाणगणैः शत्रुशरनिकरैर्भिन्नयोधिनो विदीर्णयन्तारः । अत एव स्वयमपि भिन्ना अत एव भ्रमन्तो महागजा मिलन्त्यः संयुजन्त्यो या रक्तस्य निम्नगा नद्यस्तासु निममज्जः ॥ २४ ॥

  अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
  रथिनोऽभिरिपुं क्रुद्धा हुंकृतैर्व्यसृजञ्शरान् ॥ २५ ॥

 अपार इति ॥ उच्चस्तरेष्वपि रथेष्वपारेऽगाधेऽसृक्सरित्पूरे रुधिरनदीप्रवाहे मजत्सु सत्सु रथिनो रथारोहाः क्रुद्धाः । अत एव हुंकृतैः, भीषयन्त इति शेषः । अभिरिपुं शत्रुसंमुखं शरान्व्यसृजन्तत्यजुः ॥ २५ ॥

  खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
  प्रथमं पातयामासुरसिना दारितानरीन् ॥ २६ ॥

 खड्गेति ॥ खड्गनिर्लूनमूर्धानः करवालकृत्तशिरसः । अत एव वाजिनोऽश्वाद्यापतन्तोऽप्यसिना खड्गेन दारितान्विदीर्णानरीन् प्रथमं पातयामासुः, पुनः स्वयं पेतुरिति शेषः । अत्र 'दारयित्वासिना रिपून्' इति पाठः साधीयान् ॥ २६ ॥

पाठा०-१ गलत्. २ निमग्नाः सुमहागजाः. ३ अपरेऽस्रसरित्पूरे. ४ अभिरथि क्रुद्धा हुंकृतैः; अभिक्रुधा क्रुद्धहुंकृतैः. ५ व्यापतन्तः.

२२ कु. सं.