पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
[ सर्गः १६
कुमारसंभवे

  सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
  आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ॥५॥

 सङ्ग्रामेति ॥ सङ्ग्रामानन्देन समरोत्साहेन वर्धिष्णौ वृद्धिशीले अत एव पुलकाञ्चिते रोमाञ्चव्याप्ते मिथो मिलतां संगच्छमानानां वीराणां योद्धॄणां विग्रहे शरीरे । जातावेकवचनम् । कवचानां वारणानां विच्छेदो विभेद आसीत् ॥ ५ ॥

  निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितः ।
  आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः ॥ ६ ॥

 निर्दयमिति ॥ निर्दयं निष्कृषं खड्गभिन्नेभ्यः करवालविदीर्णेभ्यः कवचेभ्यः सकाशात्समुत्थितैरुड्डयितैस्तूलैः कार्पासैः । 'तूलः पिचौ भवेत्तूलं ब्रह्मदारुविहायसोः' इति विश्वः । पलितैरिव जराजनितशुक्लत्वैरिव । 'पलितं जरसा शौक्ल्यम्' इत्यमरः । व्योमसहिता दिशः पाण्डुराः श्वेता आसन् । उत्प्रेक्षया कवचविच्छेदेऽपि वीराणां युद्धविषयक उत्साहो न विच्छिन्न इति ध्वन्यते । अतोऽलंकारेण, वस्तुध्वनिः ॥ ६॥

  खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
  इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ॥ ७ ॥

 खड्गा इति ॥ रुधिरेण संलिप्ताः । तथेतस्ततश्चण्डांशुकरैः सूर्यकिरणव्यतिकरैर्भासुराश्चमत्कुर्वन्तो वीराणां खङ्गा विद्युतां तडितां वैभवं सादृश्यं दधुः, तद्वच्छुशुभिर इत्यर्थः । अत्रोपमया खङ्गानां वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वं ध्वन्यते । अतोऽत्राप्यलंकारेण वस्तुध्वनिः । तथा वीरकरसंपर्कजनितपरिकम्पचमत्कारकारित्वरूपव्यङ्ग्येन प्रतिद्वन्द्विविहननजनितद्विगुणोत्साहवत्त्वं च व्यज्यते ॥७॥

  विसृजन्तो मुखैर्ज्वाला भीमा इव भुजंगमाः ।
  विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ॥ ८॥

पाठा०-१ पुलकाङ्किते. २ धीराणाम्. ३ समुच्छ्रितैः. ४ स्थूलैः, ५ पतितैः

६ पिञ्जराः. ७ वैद्युतम् ; विद्युतः. ८ तुष्टैः; तुङ्ग. ९ असुराः,