पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
[ सर्गः १६
कुमारसंभवे

अत एव वेलां मर्यादाम् । एकत्र न्याय्याचरणम्, अन्यत्रावधिम् , सीमानमिति यावत् । 'वेला काले च जलधौ तीरे नीरविकारयोः । क्लिष्टरसने रोगे च सीम्निवाचि युधि स्त्रियाम्' इति विश्वः । अतिक्रामत उल्लङ्घयतः, निर्मर्यादत्वेन युध्यमानस्य सीमानमुल्लङ्घ्य चलत इत्यर्थः । अत एवाशेषासु दिक्षु व्यापिनो व्यप्नुवतः । उभयत्रापि समानमेतत् । तथा कालस्य यमस्य संबन्ध्यातिथ्यमतिथ्युचितसत्कारं भुनक्ति भोक्ष्यति तथोक्तस्य । 'वर्तमानसामीप्ये-' (पा. ३।३।१३१) इति लट् । अन्यत्र कालं कृष्णमातिथ्यमतिथिसत्कारं भुनक्ति भोजयति । अन्तर्भाविणिजर्थः । प्रलये वर्धमानसमुद्रनीरे केवलं तस्यैव वर्तमानत्वात् । वृन्दाराणां देवानामसुराणां च ये सैन्ये ते एव सागरौ समुद्रौ तयोर्युगस्य युग्मस्य । 'युग्मं तु युगलं युगम्' इत्यमरः । तत्संबन्धी क्रोषणो मुखरः कोलाहलः कलकलो बहलः । अत एव शैलसंबन्धिनीनामुत्ताला उच्चतालवृक्षसहिता यास्तठ्यः सैकतानि, शृङ्गाणीति यावत् । तासां विघट्टने स्फोटने पटुः समर्थः । अत एव ब्रह्माण्डे न कुक्षि भरति तथोक्तश्च बभूव । शार्दूलविक्रीडितं वृत्तम् , 'सूर्याश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥ ५३ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये सुरा-
सुरसैन्यसंघट्टो नाम पञ्चदशः सर्गः ।

षोडशः सर्गः।


  अथा[१]न्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयंक[२]रैः ।
  युद्धमासीत्सुनासीरसुरारिबलयोर्महत् ॥ १ ॥

 अथेति ॥ अथ सुरासुरसंमेलनानन्तरम् । भयंकरैर्भयमुत्पादयद्भिः । अन्योन्यं परस्परं विमुक्तानि प्रहर्तुं विसृष्टान्यस्त्रशस्त्राणां शरादिमोहनादीनां जालानि समूहास्तैः कृत्वा । सुनासीर इन्द्रः, सुरारिस्तारकः, तयोर्बले सैन्ये तयोः । 'बलं


३ द्वयोः


  1. अन्योन्य
  2. भयंकरम्