अभ्रंलिहेरिति ॥ भो मदान्ध ! येन सेनान्या का । अभ्रंलिहैराकाशस्पृग्भिः शृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः काष्ठामण्डलैः । 'चक्रवालं तु मण्डलम्' इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य संबन्धि रन्ध्र छिद्रम् । जातानेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्म्यात्? अपि तु नेदमुचितमिति भावः ॥ ३५ ॥
अथ युग्मेनाह-
लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृ[३]त्वाभिषेकं रुधिराम्बुभिर्धनैः स्वक्रोधवाह्निं शमयांबभूव यः ३६
लब्ध्वेति ॥ यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य, अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां संबन्धिभी रुधिराम्बुभिः शोणितज्जलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् , एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव, एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदिति भावः ॥ ३६ ॥
नेति ॥ क्षत्रियाणाम् । 'क्षत्राद्धः' (पा. ४।१।१३८ ) इति घप्रत्ययः । 'आयनेयी-' (पा. ७।१।२ ) इति तस्येयादेशः । क्षयसंबन्धिनीं कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं पुमान् रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति, नैवोद्युक्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेण सेनान्या सह सव त्वत्कर्तृके विग्रहग्रहे