पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
[ सर्गः १५
कुमारसंभवे

[१]त्याधरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो न[२] गतान्न्यवर्त[३]ताम्बरात्तदाभून्मरुतां सरस्वती ॥३२॥

 इत्यादीति ॥ मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनःपुनर्विहन्यमानोऽपि विघ्नितः क्रियमाणोऽपि यदा गताद्गमनात् । भावे निष्ठा । न न्यवर्तत न निवृत्तः तदाम्बराब्द्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ॥ ३२ ॥

मदान्ध ! मा गा भुजदण्डचण्डिमावलेपतो म[४]न्मथहन्तृसूनुना ।
सुरैः स[५]नाथेन पुरंदरादिभिः समं समन्तात्स[६]मरं विजित्वरैः ॥३३॥

 मदान्धेति ॥ भो मदान्ध ! भुजदण्डयोर्यश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । 'अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च' इति मेदिनी, विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् , कर्तुमिति शेषः । मा गा मा याहि ॥ ३३ ॥
 अथ 'गुहः-' इत्यादिभिश्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-

गु[७]होऽसुरैः पडूदिनजातमात्रको निदाघधामेव निशातमोभरैः ।
विष[८]ह्यते ना[९]भिमुखो हि[१०] संगरे कुतस्त्व[११]या [१२]तस्य समं विरोधिता ३४

 तत्र गुहेति ॥ भो मदान्ध! संगरे युद्धेऽभिमुखः संमुखः षड् दिनानि जातानि न्वतीतानि यस्य, जन्मदिनादारभ्यातिक्रान्तषड्दिनीक इत्यर्थः । गुहः सेनानीः । 'गुहः पाण्मातुरे गुह्ये' इति मेदिनी । असुरैदैत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाधधामा उष्णतेजाः सूर्य इव न हि नैव विषयते विमृष्यते । ल्वया समं सह तस्य संबन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् ? कुमारविषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ॥ ३४ ॥


  1. इत्याद्यनिष्टैः; इत्यादिरिष्टैः
  2. न च विन्यवर्ततः; न गतः स वर्त्मना
  3. अम्बरे
  4. मन्मथशत्रु
  5. सनाथैस्त्रिदिवेश्वरादिभिः; सनाथैस्त्रिदशेश्वरादिभिः
  6. समरे
  7. महासुरैः; सुरासुरैः
  8. विमुह्यते
  9. सोऽभिमुखम् ; योऽभिमुखम्
  10. त्वियम्
  11. तेन