सुरारिनाथस्येति ॥ तुमुलैः संकुलैः । 'तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले' इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा,-सुरारीणां नाथो राजा तस्य । संबन्धिनीनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी अभ्युच्छ्रितैरभ्युत्पतितैर्वारिजर्वारिजानि कमलानि विद्यन्ते येषु तैः- कमलसहितैरित्यर्थः । 'अर्शआदिभ्य-'(पा.५।२।१२७) इत्यच् । ऊर्मिशतैस्तरङ्गशतैश्च।'भङ्गस्तरङ्ग उर्मिर्वा' इत्यमरः । नाकनिकेतनावलीं स्वर्गवेश्मपङ्किमक्षाल, यन्ममार्ज ॥ १२ ॥
अथेति ॥ अथानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे 'भो तारक ! तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । 'अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्' इति मेदिनी । यो दुःखाम्बु. धिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति' इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपङ्किर्बभूव ॥ १३ ॥
इतः परम् 'आगामि-' इत्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-
तत्र आगामीति ॥ घोरतरातिशयभयानका कुपक्षिणां गृध्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यदैत्यस्याशनकेलिर्भोजनक्रीडा तत्काङ्क्षतीति तथाभूता। तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । 'उपर्यध्यवसः सामीप्ये'(पा. ८।१।७) इति द्विर्भावः, तद्योगे द्वितीया । तदुक्तं वामनेन (काव्या.सू. ५।२।८५)--'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । अनिवारितातपा न निवारितधर्मा च सती व्योझ्याकाशे पदं स्थानं दधौ धृतवती । अनेन पद्येन