स इति ॥ स राजा तारकः पुरोऽग्रे द्वारपालेन प्रदर्शितान्कृतानतीन्बाहुवरान् बाहवो वराः श्रेष्ठा येषां तथोक्तानधिष्ठितान्, द्वार इति शेषः । महाहवरूपिणोऽम्भोधेः समुद्रस्य विधूनने कम्पन उद्धतान्प्रगल्भान्, महावीरानित्यर्थः । 'सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । बहून्पृतनाधिपान्सेनापतीन् ददर्श दृष्टवान् । 'अदभ्रं बहुलं बहु' इत्यमरः ॥ ७ ॥
बलीति ॥ अथानन्तरं बली वीर्यवान् स तारको बलारातेरिन्द्रस्य संबन्धिनो बलस्य सैन्यस्य । 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः' इति मेदिनी । अतिशातनं तनूकर्तारम्, हन्तारमित्यर्थः । दिग्दन्तिनामैरावतादीनां नादद्रवयोर्घोषमदयोर्नाशनो नाशकः स्वनो घोषो यस्य तम् यदीयघोषवशाद्दिग्दन्तिनोऽपि तूष्णीं शुष्कमदाश्च भवन्तीति भावः । महीधरेषु पर्वतेप्वम्भोधिषु च नवारितक्रममनिवारितसंचारम् । नशब्देन सह 'सुप्सुपा-'(पा.२।१।४ ) इति समासः। घोरं भीमं स्थमधिरुह्य ययौ जगाम, प्रतस्थ इति यावत् ॥ ८ ॥
युगक्षयक्षुब्धपयोधिनिःस्वनाश्वलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः प[९]तिं प्रयान्तं पृतनास्तमन्वयुः ॥९॥
युगेति ॥ युगक्षये प्रलयकाले क्षुब्धः संचलितो यः पयोधिः समुद्रस्तस्य निःस्वन इव निःस्वनो यासाम् , प्रलयकालोद्वेलीभूतसागरसदृशघोरघोषा इत्यर्थः । चलन्तीनां पताकानां वैजयन्तीनाम् । 'पताका वैजयन्त्यां स्यात् सौभाग्ये नाटकाङ्कयोः' इति मेदिनी । कुलेन समूहेन वारितातपा दूरीकृतघर्मा धराया भूमे रजोभिर्ग्रस्ता दिगन्तानि दिक्प्रान्तानि भास्करश्च याभिस्तथाभूताः पृतनाः सेनाः कर्त्र्यः । प्रयान्तं प्रतिष्ठमानं तं पति तारकासुरमन्वयुः, अनुजग्मुरित्यर्थः ॥ ९ ॥