पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४६-५०]
३०९
सेनाक्रमणाद्धूल्यभिदूषणम्

मम्बरं यासाम् । तथा रजस्वला रजोयुक्ता दिशो वीक्ष्य परितो गहनैः सघनैः रजोन्धकारैः कर्तृभिः असौ दिनेश्वरः सूर्यः कुतोऽपि कुत्रापि तिरोबभूवे तिरोगमितः, अन्तर्हित इत्यर्थः । 'भूङ् गतौ' इत्यतो लिद, 'भू प्राप्तौ' इत्यतो वा । वीक्ष्येवेति गम्योत्प्रेक्षा । अथ द्वितीयपक्षे-रजस्वला आर्तववतीः। अत एव कराला भीषणा वाचं वाणीमलान्त्यगृह्णन्ति मुखानि यासाम् । ततो विशेषणसमासः मौनव्रतधारिणीरित्यर्थः । तथा ध्वस्ताम्बराः वस्तशाटिकाः, नग्ना इत्यर्थः । एवंभूता चमूर्योषितः । 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' इति मेदिनी । वीक्ष्य रजस्यार्तवविषयेऽन्धकारोऽन्धवत्कारः कृतिः, क्रिया इति यावत् । भावे घञ्, आर्तवमपन्नपद्भिरित्यर्थः । रजस्वलादर्शननिषेधात् । गहनैर्गहनमनोभिः सद्भिरित्यर्थः । दिनेश्वरः कश्चित्पुरुषः कुतोऽपि कुत्रापि तिरोबभूवे, कश्चिदसत्पुरुषो रजस्वलां पश्यन्नपि सद्भिः करुणया पटादिभिस्तिरोधीयते तद्वदित्यर्थः ॥ ४८॥

 आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता ।
 भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं घ[१]नमत्सरादिव ॥ ४९ ॥

 आक्रान्तपूर्वेति ॥ सैनिकैः सेनाजनै रभसेन वेगेनाक्रान्तपूर्वा पूर्वमाक्रान्ता दिगङ्गना दिग्रूपा नायिका रजसा धूल्या । आर्तवेन च । 'रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिदूषिता कृता, वीक्ष्येति शेषः । अतो घनमत्सरादिव गाढवेषादिव व्योम कर्तृ भेरीरवाणां घनैः प्रतिशब्दितैः कृत्वा गाढं जगर्ज । अन्योऽप्यात्मपत्नीमन्यसंगमेन रजोयुक्तां वीक्ष्य गर्जति ॥ ४९ ॥

 गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे ।
 गुरुतरा इ[२]व वारिधरा रथा भुवमि[३]तीह विव[४]र्त इवाभव[५]त् ॥ ५० ॥

 गुरुसमीरेति ॥ गुरुणा महता समीरेण वातेन समीरिता उपरि क्षिप्ता भूधराः पर्वता इवेत्युत्प्रेक्षा। गजा गगनं विजगाहिरे, अवगाहितवन्त इत्यर्थः । गुरुतरा अपि महान्तो वारिधरा मेघा इवेत्युत्प्रेक्षा । स्था भुवं विजगाहिरे। इह सङ्गर इत्येवं विवर्त इव व्यत्यय इवाभवत् ; गगनपृथिव्यवगाहने स्यन्दननागयोर्भूधरसंभवात् । उत्प्रेक्षितं च तस्सादृश्यदर्शनात् । द्रुतविलम्बितं वृत्तम् ॥ ५० ॥


  1. गुरुमत्सरादिव.
  2. बहुवारिभराद्धनाः,
  3. अतीव.
  4. नमन्तः.
  5. अभवत्.