क्रीडा येषाम्, पयोधिमपि कम्पयद्भिरित्यर्थः । भेरीध्वनितैर्वदनैकवाद्यमानवाद्यविशेषरवैर्निमित्तैर्जगत्समाकुलं व्याकुलं बभूव ॥ ४५ ॥
इत इति ॥ इतस्ततो वातविधूतानि पवनकम्पितान्यत एव चञ्चलानि च तैः । तथा नीरन्ध्रितं निरवकाशीकृतमाशासु दिक्षु गमनं यैः, आत्मव्याप्त्या रुद्धपथिकपथैरित्यर्थः । क्वणद्रणकाञ्चनकिङ्किणीनां सौवर्णनूपुराणां कुलं जालं येषां प्रान्तभागेपु तैः, शोभायं प्रतिबद्धनूपुरजालैरित्यर्थः । लक्षैर्लक्षसंख्यैः । 'लक्षं शरण्ये संख्यायाम्' इति मेदिनी । ध्वजांशुकैर्ध्वजपटैः । 'अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । नभसि गते प्रसृते धूलीजलधौ रजोऽम्बुधावमज्जि मज्जितम् । भावे लुङ् । सर्वाणि ध्वजांशुकानि धूलीभिरलक्षितानि बभूवुरित्यर्थः॥४६॥
घण्टारवैरिति ॥ मत्तद्विपानां संबन्धिभिर्निरन्तरं विसृत्वरैः प्रसृमरैः । सुतरां भैरवैर्भीषणैः । 'भैरवः पुंसि शम्बरे। भीषणेऽपि च' इति मेदिनी । गर्जरवैर्गर्जनारूपघोषैः । रौद्भतरैरत्युग्रैः । 'रौद्रं तूग्रममी त्रिषु' इत्यमरः । घण्टास्वैश्च । वाहिनीनां सेनानां संबन्धिनः पटहस्यानकाख्यवाद्यविशेषस्य निःस्वनाः शब्दा न प्रथयांबभूविरे न प्रकटीचक्रिरे ॥ ४७ ॥
करालेति ॥ चमूस्वनैः सेनाघोषैः करालानि वाचालानि च मुखानि प्रारम्भाः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति मेदिनी । तथा ध्वस्तं रजोव्याप्त-