पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४०-४५]
३०७
सेनादिगमनेन विषमभूमिसमीकरणम्

र्वीरप्रणादैर्वीराणां शब्दैश्च दिशः काष्ठाः कर्त्र्यः । वाचालतां मुखरतामादधिरेतरामतिशयेन धृतवत्यः । तरपि 'किमेत्तिङ् -' (पा. ५।४।११) इत्याम् ॥४२॥

 दन्तीन्द्रदा[१]नद्रववारिवीचिभिः सद्योऽपि नद्यो बहु[२]धा पुपूरिरे ।
 धा[३]रा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः ४३

 दन्तीन्द्रेति ॥ दन्तीन्द्राणां गजेन्द्राणां ये दानद्रवा मदस्रुतयस्तेणां वारीणि जलानि तेषां वीचिभिस्तरङ्गैः कर्तृभिः । नद्यो वाहिन्योऽपि सद्यो बहुधा पुपूरिरे पूरिताः । कर्मणि लिट् । ग्रीष्मसंतापेन शुष्का अपि नद्यो जलपूर्णा आसन्नित्यर्थः । अथ या नद्यस्तुरगैः क्षतैः क्षुण्णै रजोभिर्भृताः पूर्णा अत एव पङ्कतां कर्दमतामेत्य स्थिताः ता रथैः कर्तृभिः । धाराश्चक्रधारा भ्रामयित्वा स्थलीकृताः ॥ ४३ ॥

 नि[४]म्नाः प्रदेशाः स्थलतामुपागमनिम्नत्वमुच्चैरपि स[५]र्वतश्च ते ।
 तुरंगमाणां व्रजतां खुरैः क्ष[६]ता रथैगजेन्द्रैः परितः स[७]मीकृताः ४४

 निम्ना इति ॥ निम्ना नीचाः प्रदेशा भूमयः स्थलतां समानभूमित्वमुपागमन्प्रापुः । सर्वत उच्चैरप्युन्नता अपि ते प्रदेशा निम्नत्वमुपागमन् । निम्नमुच्चैरभवत्, अन्यप्रदेशोत्थापितधूलिपूरितत्वात् । उच्चैर्निम्नमभवत्, आत्मधूलीनामन्यत्र पतितत्वादिति भावः । अथ च ते प्रदेशा जतां गच्छतां तुरंगमाणां खुरैः क्षताश्रुक्षुदिरे । अत एव रथैर्गजेन्द्रैश्च परितो निम्नोन्नतेषु समीकृताः, समाश्चक्रिर इत्यर्थः ॥ ४४ ।।

 नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्बणैः ।
 [८]योधिनिर्धूननकेलिभिर्जगद्बभूव भेरीध्व[९]नितैः समाकुलम् ॥४५॥

 नभ इति ॥ नभसि व्योम्नि दिगन्तेषु च यः प्रतिघोषः प्रतिध्वनिस्तेन भीषणैर्भयानकैः । महान्ति यानि महीभृतां पर्वतानां तटानि भृगवस्तेषां दारणे भेदन उल्बणैरुद्भटैः, समर्थैरिति यावत् । तथा पयोधेः समुद्रस्य निर्धूनने कम्पने केलिः


  1. दानाम्बुधि; दानद्रुत.
  2. बहु ताः.
  3. धरारजोभिस्तुरगक्षतै तं याः पङ्कतामेत्य रजस्वलीकृतम् ; धारारजोभिस्तुरगैः क्षितिभृता या पढ़तामेत्य रथैः स्थलीकृता.
  4. निम्नप्रदेशाः.
  5. सर्वतःस्थलम् ; सर्वतःस्थलाः.
  6. क्षिती.
  7. समीकृता.
  8. पयोविनिधूननकेलिभिः; पयोधिनिधूतककेलिभिः,
  9. स्खनितैः.