पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
[ सर्गः १४
कुमारसंभवे

तद्वत् । समासोक्तिरलंकारः-'समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य यत्' इति लक्षणात् ॥ ३९॥

 भुवं विगाह्य प्रययौ महाचमूः क्व[१]चिन्न मान्ती म[२]हतीं दिवं खलु ।
 सुसंकुलायामपि तत्र निर्भरा[३]त्किं कांदिशीकत्वमवाप नाकुला ४०

 भुवमिति ॥ महाचमूर्महती सेना भुवं विगाह्य व्याप्य क्वचिदपि भूमिस्थले न मान्त्यसमाविशन्ती सती महतीं विशालां दिवं स्वर्ग प्रययौ प्राप । खलु निश्चयेन । अथ च निर्भरादधिकात्मभाराद्धेतोस्तत्रापि दिव्यपि सुतरां संकुलायां व्याप्तायां सत्यामाकुला व्याकुला सती कांदिशीकत्वं भयद्गुतत्वम् । 'कांदिशीको भयद्रुतः' इत्यमरः । किं नावाप ? अपि त्ववापैवेत्यर्थः । परस्परपेषणभिया व्याकुलत्वाद्दुद्रुवुरित्यर्थः । अत्र द्रवणं द्रवणेच्छामाप्रपरं द्रवणं कर्तुमैच्छदिति तात्पर्यार्थः । अन्यथा व्याप्तेः प्रतिबन्धकत्वेन द्रवणासंभवाद्रवणोक्तेरफलत्वापत्तिः ॥ ४०॥

 उद्दामदानद्वि[४]पवृन्दबंहितैर्नितान्तमुत्तुङ्गतुरंगहेषितैः ।
 [५]लद्धनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकु[६]लं ज[७]गत् ॥४१॥

 उद्दामेति ॥ उद्दामदाना उत्कटमदा ये द्विपा गजाम्तेषां वृन्दस्य समूहस्य बृंहितैः शब्दैः । तथोत्तुङ्गा उन्नता ये तुरंगा अश्वाम्तेषां हेषितैर्हेषाभिः । तथा नितान्तमत्यन्तं चलन्तो धना इव स्यन्दना रथाम्तेषां या नेमयश्चक्रधारास्तासां निःस्वनैश्च नितरामाकुलं व्याकुलं जगन्निरुच्छासमिव निरुद्धश्वासमिवाभूत् । आकुलत्वसाधारणधर्मेण निरुद्धश्वासत्वमुत्प्रेक्षत इत्युत्प्रेक्षालंकारः ॥ ४ ॥

 महागजानां गुरुभिस्तु गर्जितर्विलोलघण्टारणितै रणो[८]ल्बणैः ।
 वीर[९]प्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ॥ ४२ ॥

 महागजानामिति ॥ महागजानां संबन्धिभिर्गुरुभिर्दीर्घैर्गर्जितै रणोल्बणैर्विलोला या घण्टास्तासां रणितैश्च प्रमदेनोन्मादेन निमित्तेन प्रमेदुरैः प्रकर्षेण पुष्टै-


  1. १ ततः.
  2. दिवमभ्यगात्ततः.
  3. निर्भरा विकांदिशीकत्वम्.
  4. द्विपबृंहितः शतैः.
  5. चलध्वज.
  6. अथ.
  7. नभः; तत्.
  8. रणोज्वलैः
  9. वीरप्रभेदैः.