पक्ष्माणि च, स्तनमण्डलानि च, तस्मिन् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। (पा. २।४।२) इति प्राण्यङ्गत्वादेकवद्भावः । तथा ध्वजेषु नागेषु हस्तिषु रथेषु वाजिषु च धनं सान्दं सुरसैन्यजं रजो धूलिः क्षणेन तस्थौ । अनेन तेषां शत्रूणामशुभमुक्तमिति ध्वनिः ॥ ३४ ॥
घनैरिति ॥ धनैः सान्दैरत एव स्थगितार्कमण्डलैराच्छादितसूर्यबिम्बैश्चमूरजोभिः सेनाधूलिभिर्निचितं व्याप्त नभःस्थलं व्योमदेशं विलोक्य घनभ्रमेण मेधभ्रान्त्या हंसैमरालैर्मानसं सरोऽभि संमुखमयायि गतम् । भावे लुङ् । तेषां वर्षास्वप्रगल्भत्वादिति भावः । अथ च केकिभिर्मयूरैः सानन्दं सहर्षमनर्ति नृत्यमकारि । अत्रापि भावे लुङ् ॥ ३५ ॥
सान्द्रेरिति ॥ अम्बरे नभसि । 'अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके' इति मेदिनी । नवो नूतनः, वार्षिक इति यावत् । योऽम्बुदो मेघस्तस्यानीकं समूहस्तन्निभैस्तत्सदृशैः । 'निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु' इति मेदिनी । तथा सान्द्रैः सघनैः । 'सान्द्रं बले वापि घने मृदौ च' इति मेदिनी। सुराणामनीकस्य सैन्यस्य रजोभी रेणुभिः । रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' इति मेदिनी । अभिश्रित आवृते सति स्वर्णमया हेममया महाध्वजा महान्तो ध्वजाः। 'ध्वजः स्याच्छौण्डिके पुमान् । न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः' इति मेदिनी । परिस्फुरन्तः परितः स्फुरन्तः प्रकाशमानास्तडितां विधुताम् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । गणाः समूहा इव चकाशिरे शुशुभिरे ॥३६॥
विलोक्य धूलीपटलैभृशं भृतं द्यावापृथिव्योरलमन्तरं महत् ।
किमूर्ध्वतोऽधः कि[७]मधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत ३७