पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २९-३४]
३०३
तारकासुरादिभ्योऽशुभसूचकलक्षणानि

श्लो० २९-३४] अन्तर्भाविणिजथः । गन्धर्वपुरस्य ह्यनेकवर्णपरिमण्डितत्वरूपसामान्यधर्मेण नभसो योपमा तन्मूलिका भ्रान्तिः । अत उपमोत्थापितोऽयं भ्रान्तिमानलंकारः । तेनोभयोरङ्गाङ्गिभावेन संकरः ॥ ३१ ॥

 महा[१]स्वनः सैन्यविमर्दसंभवः कर्णान्त[२]कूलंकषतामुपेयिवान् ।
 पयोनिधेः क्षुब्धतरस्य व[३]र्धनो बभूव भूम्ना भुवनोदरंभरिः ॥३२॥

महाखन इति ॥ कर्णान्तः श्रवणमध्यं स एव कूलं तटम् । 'अथ कूलं तटे सूर्ये सैन्यपृष्ठतडागयोः' इति मेदिनी । तत्कषत्युन्मार्ष्टि तस्य भावस्तत्ता ताम् । 'सर्वकूलाभ्रकरीषेषु कषः'(पा. ३।२।४२) इति खश्। 'अरुर्द्विषत्-'(पा.६।३।६७) इति मुम् । उपेयिवान्प्राप्तवान् । कर्णान्तं स्फोटयन्नित्यर्थः ।क्षुब्धतरस्यात्यन्तसंचलितस्य । वेलामतिक्रान्तस्येत्यर्थः । पयोनिधेः समुद्रस्य वर्धनः । कर्तरि ल्युट् । तथा भुवनैः कृत्वोदरं भरतीति तथोक्तः । आवृतसकलब्रह्माण्डत्वाद्भुवनानां मध्यपातो युक्त इति भावः । एवंभूतः सैन्यविमर्दसंभवः सेनासंघटनोत्पन्नो महास्वनो भूम्ना बाहुल्येन युक्तो बभूव । अतिमहत्त्वविशिष्टो जात इत्यर्थः ॥ ३२ ॥

 महागजानां गुरुबृंहितै[४]स्ततैः सुहेषितैर्घोरतरैश्च वाजिनाम् ।
 [५]नै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः ३३

महागजानामिति ॥ महागजानां महतां दन्तिनां संबन्धिभिर्गुरुबंहितैर्गुरूणि गम्भीराणि यानि बृंहितानि ध्वनितानि तैः । तथा ततैर्विस्तृतैः । तथा घोरतरैरत्यन्तभयंकरैर्वाजिनां सुहेषितैः शोभनहेषणैः । तथा धनैर्गम्भीरै रथानां संबन्धिभिर्गुरूणि महान्ति चण्डानि भयानकानि च यानि चीत्कृतानि तैश्च पटहस्य निःस्वनः स्वनस्तिरोहितोऽन्तर्हितः । अप्रकाशित इति यावत् । अभूत् ॥ ३३ ॥

 महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु[६] च।
 ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः ॥३४॥

महासुराणामिति ॥ महासुराणां तारकादीनां संबन्धिनीनामवरोधयोषितामन्तःपुरस्त्रीणाम् । 'शुद्धान्तश्चावरोधश्च' इत्यमरः । संबन्धीनि कचाश्च, अक्षि-


  1. रवः प्रगल्भाहतभेरिसंभवः.
  2. मूलंकषताम्.
  3. मन्थनः.
  4. शतैः;
    स तैः.
  5. स्वनैः.
  6. ष्वलम्.