पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
[ सर्गः १४
कुमारसंभवे

 इति क्रमेणामरराजवाहिनी महाहवाम्भोधिविलासलालसा ।
 अवातरत्काञ्चनशैलतो द्रुतं कोलाहलाक्रान्तविधूतकन्दरा ॥२५॥

 इतीति ॥ महानाहवः सङ्ग्रामः स एवाम्भोधिः समुद्रस्तत्र यो विलासो लीला, क्रीडेति यावत् । 'विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम्' इति मेदिनी। तत्र लालसोत्सुक्यं यस्याः। तथा कोलाहलेन कलकलेन । 'कोलाहल: कलकलः' इत्यमरः । आक्रान्ता व्याप्ता अत एव विधूताः कम्पिताः कन्दरा गह्वरा यया । 'कन्दरस्त्वङ्कुशे पुंसि गुहायां न नपुंसकम्' इति मेदिनी । एवंभूतामरराजवाहिनीन्द्रसेना । 'वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति मेदिनी । इति क्रमेण पूर्वोक्तक्रमेण काञ्चनशैलतः सुमेरोः सकाशाद्द्रुतं शीघ्रमवातरत् , उत्ततारेत्यर्थः ॥ २५ ॥

 महाचमूस्यन्दनचण्डचीत्कृतैर्विलोलघण्टेभपतेश्च बृंहितैः ।
 सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा महत्स्वप्नसुखं न तत्यजुः ॥२६॥

 महेति ॥ सुरेन्द्रस्येन्द्रस्य शैलेन्द्रे मेरौ या महागुहा महागह्वराणि तासु शेरते स्वपन्ति, गुहासु निद्रां कुर्वन्त इत्यर्थः । तथाभूताः सिंहा मृगेन्द्रा महाचमूषु महतीषु सेनासु ये स्यन्दना रथास्तेषां चण्डैः प्रचण्डैः, तीव्रैरिति यावत् । 'चण्डो धनहरी शङ्खपुष्पास्त्रिष्वतिकोपने । तीव्रेऽपि चूडावलभौ शिखायां बाहुभूषणे ॥' इति मेदिनी । चीत्कृतैः शब्दविशेषैः । इयं च शब्दानुकृतिः, तथा विलोलघण्टोऽतिचपलघण्टो य इभपतिर्गजराजस्तस्य । जातावेकवचनम् । बृंहितैर्गर्जितैश्च । 'बृंहितं करिगर्जितम्' इत्यमरः । महद्दीर्घं स्वप्ने निद्रायां यत्सुखम् । 'सुखं शर्मणि ना नाके' इति मेदिनी । 'स्वपो नन्' (पा. ३।३।९१ ) इति नन्प्रत्ययः। न तत्यजुर्न जहुः । अत्र निद्राप्रतिबन्धाश्रयीभूतबहुविधकोलाहलरूपे सत्यपि निदाने निद्राभङ्गरूपकार्योत्पत्त्यभावाद्विशेषोक्तिरलंकारः । 'कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे' इति लक्षणात् । 'शयवासवासिष्वकालात् (पा. ६।३।१८ ) इति सूत्रे हलदन्तादेवेति नियमाद्गुहाशय इत्यत्र तदभावान्नालुक् ॥ २६ ॥

पाठा०-१ इवारम्भ. २ कोलाहलावृत्तिविधूतकन्दरा; कोलाहलाकृतविधूतकन्दरा; कोलाहलाकृत्तविधूतकन्दराः. ३ महाचमूनां करिचण्ड. ४ घण्टाक्वणितोपहितैः. ५ महास्वप्न.