न केवलं व्योमन्यारूढं, किंतु दिगन्तेष्वपि तथेत्याह--
खातं खुरै रथ्यतुरंगपुंगवैरुपत्यकाहाटकमेदिनीरजः ।
गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा ॥२०॥
खातमिति ॥ रथं वहन्ति ते रथ्याः। तद्वहति रथयुगप्रासङ्गम्' (पा. ४।४।७६) इति यत् । तथोक्ता ये तुरंगपुंगवा अश्वश्रेष्ठास्तैः कर्तृभिः । खुरैः कृत्वा खातं क्षुण्णम् । उपत्यकाद्रेरासन्ना या हाटकमेदिनी सुवर्णभूमिः । अद्रेः सौवर्ण्यासन्मभूमिरिति तात्पर्यार्थः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (पा. ५।२।३४ ) इत्यासन्नार्थे त्यकन्प्रत्ययः । तस्याः संबन्धि । रजः कर्तृ । भूरि बहुलं मुखरैः शब्दायमानैः समीरणैः पवनैर्दिगन्तान्दिक्प्रान्तान् गतम् , गमितमित्यर्थः । अन्तर्भावितणिजर्थोऽत्र बोध्यः । तथोक्तं सत् । भूयसातिशयेन शोभमानं विभ्रमं विलासम् , शोभामिति यावत् । बभार धृतवान् , अत्यन्तं शुशुभ इत्यर्थः ।'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः ॥ २०॥
अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः ।
चमूषु सर्पन्मरुदाहतोऽहरन्नवीनसूर्यस्य च कान्तिवैभवम् ॥२१॥
अध इति ॥ चमूषु सेनासु मरुता पवनेनाहत उत्पादितः । अत एवाधो नीचैः । तथोर्ध्वमूर्ध्वभागे । तथा पुरतोऽग्रभागे । अथ पृष्ठतः पार्श्वभागे । तथाभितोऽपि इतस्ततश्च सर्पन्प्रसरन् । चामीकररेणुः सुवर्णरजः । सुवर्णपर्वतोद्भूतत्वादिति भावः । नवीनसूर्यस्योषस्यसूर्यस्य कान्तिवैभवं द्युतिसंपदमहरत् ,ततोऽप्यधिकं शुशुभ इत्यर्थः ॥ २१ ॥
बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम् ।
अकालसंध्याघनरागपिङ्गलं घनं घनानामिव वृन्दमुद्यतम् ॥ २२ ॥
बलोद्धृतमिति ॥ काञ्चनस्य भूमौ जातं रजो धूलिर्बलोद्धृतं सैन्येनोत्पातितमत एव दिगन्तेषु दिक्प्रान्तेषु तथा नभःस्थल आकाशदेशे स्थितं च सत् । अकाले या संध्या तस्या यो घनः सान्द्रो रागो लौहित्यं तेन पिङ्गलं पिशङ्गम् ,
पाठा०-१ उपत्यकानां कनकस्थलीरजः. २ प्रखरैः. ३ दाहभ्रमम्. ४ तत्कालबालातपवैभवं बहु; तत्कालबालारुणवैभवं बहु. ५ वातोद्धतम् ; बलोद्धतम्. ६ नभस्तले. ७ पिङ्गितम्. ८ दण्डम्.