पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १६-१९]
२९७
योद्धृप्रस्थाने पटहादिध्वनिवर्णनम्

सिद्धम् । तथा घनाः सान्द्राः स्वनाः शब्दा वितेनिरे, वितस्तरिर इत्यर्थः ॥१७॥

 प्रमथ्यमानाम्बुधिगर्जितर्जनैः सुरारिनारीगणगर्भपातनैः ।
 नभश्चमूधूलिकुलैरिवाकुलं ररास गाढं पटहप्रतिस्वनैः ॥ १८ ॥

 प्रमथ्यमानेति ॥ चमूनां धूलिकुलै रेणुसमूहैः । 'कुलं जनपदे गोत्रे सजातीयगणेऽपि च' इति मेदिनी । आकुलं व्याप्तं पीडितं नभः प्रमथ्यमानोऽवलोड्यमानो योऽम्बुधिस्तस्य गर्जिर्गर्जनं तस्य तर्जना जेतारः, ततोऽप्यधिकगर्जनैरित्यर्थः । अत एव सुरारेस्तारकस्य यो नारीगणः स्त्रीसमूहस्तस्य यो गर्भस्तस्य पातनैः पातनकारिभिः, अतिगर्जनभयादिति भावः । पटहप्रतिस्वनैरानकप्रतिघोषैः कृत्वा गाढं दृढं यथा तथा ररासेव रुरोदेव । उत्प्रेक्षालंकारः ।आर्तानां रोदनमेवैकं शरणं भवतीति भावः ॥ १८ ॥

 क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम् ।
 धृतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्योम समारुहत्क्रमात् ॥१९॥

 क्षुण्णमिति ॥ रथैः स्यन्दनैः क्षुण्णमुत्खनितम् । तथा काञ्चनशैलजं सुमेरुपर्वतजनितम् । इदं विशेषणं पीतत्वद्योतनार्थम् । रजो धूलिः । वाजिभिरश्वैः कर्तृभिः । खुरैः करणैः । कृत्वाऽऽहतं चूर्णीकृतम् , पिष्टीकृतमिति यावत् । तथा करीन्द्राणां मत्तगजानां कर्णैः श्रवणैः परितः सर्वतः प्रसारितं विस्तृतम् । तथा ध्वजैर्धुतं कम्पितम् । एतेन सघनता द्योतिता । तथा वातैः पवनैर्हतं स्पृष्टम् । एतेन पवनस्योपरि रहःप्राप्तौ साधकतोक्ता । क्रमाद्यथाक्रमं व्योम कर्म । समारुहत् , आकाशमारूढमित्यर्थः । अत्र रुहेर्भौवादिकत्वाल्लङि गुणप्रसङ्गः, लुङि शलन्तत्वात्क्सप्रसङ्गः, णिजन्तत्वे लङि यकारश्रवणप्रसङ्गः, इत्यतोऽयं प्रयोगश्चिन्त्य इति बहवः । वयं तु व्योम्न्याकाशे सम्यगारोहतीति समारोहः, इगुपधलक्षणः कः, तत आचारार्थे क्विपि अल्लोपे धातुत्वाल्लङि शपि अल्लोपस्य स्थानिवत्त्वाद्गुणाभावे च रूपसिद्धिरिति समादध्महे ॥ १९ ॥

पाठा०-१ अर्णवगर्जितस्वनैः. २ वरारि. ३ आकुलैः. ४ क्षिप्तम्. ५ धृतं

घनैः, ६ ससार तत् ; समासदत् . ७ क्षणात्.