पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
[ सर्गः १४
कुमारसंभवे

भयानकम्' इत्यमरः । तथा महत्तरेऽतिशयदीर्घे मकरे नक्रे रूढः । तथा दुर्वारः पाश आयुधविशेषो यस्य, पाशधरः सन्नित्यर्थः । युद्धाय युद्धं कर्तुं तं त्रिपुरान्तकस्य शिवस्यात्मजं पुत्रं कुमारमन्वियायान्वगच्छत् ॥ ९॥

 दिगम्बराधिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम् ।
 अधिष्ठितः संगरकेलिलालसो मरुन्महेशात्मजमन्वगाद्द्रुतम् ॥१०॥

 दिगिति ॥ संगरकेलौ संग्रामक्रीडायां लालसा कामो यस्य । 'लालसौत्सुक्य- तृष्णातिरेकया्ज्चासु च द्वयोः' इति मेदिनी । तथाभूतो मरुत् पवनो वायुकोणा- धीशः क्षणान्मुहूर्तमात्रेणैव । 'क्षणः पर्वोत्सवे च स्यात्तथा मानेऽप्यनेहसि' इति मेदिनी । दिशामम्बरस्य च । 'अम्बरं वाससि व्योम्नि' इति मेदिनी । अधिक्रमण आक्रमण उल्बणमुद्भदं महीयांसं महत्तरम् । अरुद्धोऽप्रतिरूद्वो विक्रमो विवत् पक्षिवत् क्रमः पादक्षेपो यस्य तथाभूतं मृगं हरिगम् । 'मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः' इति मेदिनी । अधिष्ठितः सन् । तं महेशात्मजं कुमारं द्रुतं सत्वरमन्वगादनुजगाम ॥ १०॥

 विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन् ।
 महाहवाम्भोधिविगाहनोद्धतं यियासुमन्वागमदीशनन्दनम् ॥११॥

 विरोधिनामिति ॥ नरवाहनः कुबेरः । 'पौलस्त्यो नरवाहनः' इत्यमरः । विरोधिनां शत्रूणां संबन्धि शोणितं रुधिरं तेन या पारणा भोजनं तामिच्छति तथाभूतामनूनामन्यूनसारां गदामायुधविशेषं वहन्धारयन्सन् महाहवो महारण: स एवाम्भोधिः समुद्रस्तस्य विगाहन उद्धतमुद्भटम् , समर्थमिति यावत् । अत एव यियासुं जिगमिषुमीशनन्दनम् शिवपुत्रं कुमारमन्वागमत् , अनुगच्छति स्मेत्यर्थः ॥ ११ ॥

 महाहिनिर्बद्धजटाकलापिनो ज्वलत्रिशूलप्रबलायुधा युधे ।
 रुद्रास्तुषाराद्रिसैखं महावृषं ततोऽधिरूढास्तमयुः पिनाकिनः॥१२॥

पाठा०-१ अद्रिक्रमण. २ लालसम्. ३ अभ्यगात्. ४ ध्रुवम्. ५ विग्रह. ६ विगाहमानः. ७ अभ्यागमत्. ८ निर्बन्ध. ९ प्रवरायुधाः. १० युधि.

११रुषा. १२ समम्.