पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
[ सर्गः १४
कुमारसंभवे

 शरदिति ॥ शरदि घनात्यये चरतो भ्रमतश्चन्द्रस्य मरीचयो मयूखास्तद्वत् पाण्डुरैः शुभैः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । चरत इति विशेषणं चामराणामपि वीजनवशेन चलत्वादन्वर्थमिति बोध्यम् । तथाभूतवरैः श्रेष्ठैः । 'वरो जामातरि वृतौ देवतादेरभीप्सिते । खड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम्' इति मेदिनी । चारुभिर्मनोहरैश्च चामरैर्वीज्यमानः । तथा रणेच्छुः संघ्रामाभिलाषुकः स कुमार उल्बणैरुद्भटः । किंनराः किंपुरुषाः । 'स्यात्किंनरः किंपुरुषः' इत्यमरः । सिद्धा देवविशेषाश्चारणाश्च तैः कर्तृभिः । पुरःसरैः सद्भि- र्वाग्भिः कृत्वाऽस्तूयतेडितः । 'ष्टु स्तुतौ' इत्यतः कर्मणि लङ् ॥ ४ ॥

 इदानीमिन्द्रादीनामष्टानामनुप्रयाणमाह-

 प्रयाणकालोचितचारुवेषभृद्वज्रं वहन्पर्वतपक्षदारणम् ।
 ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात् ॥५॥

 प्रयाणेति ॥ ततोऽनन्तरं द्युपतिरिन्द्रः प्रयाणकाले प्रस्थानसमय उचितं योग्यं चारु मनोहरं च वेषं बिभर्ति धरति तथोक्तः । तथा पर्वतपक्षाणां दारणं छेदनम् । करणे ल्युट । वज्रं स्वायुधं वहन् , करेणेति शेषः । तथा स्फाटिक- शैलः कैलासम्तस्य सोदरं सदृशमैरावतं गजमधिरुह्यास्थाय तं कुमारमन्वगात् । अनुययावित्यर्थः । 'अभ्यगात्' इति पाठस्त्वसाधुः । सेनानीत्वेन वृतत्वादति- श्रेयः कुमारापेक्षयान्येषामिन्द्रादीनामपि गौणत्वात्पुरतो गमनानौचित्यात् ॥ ५॥

 तमन्वगच्छद्गिरिशृङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी।
 विरोधिविद्वेषरुषाधिकं ज्वलन्महोमहीयस्तरमायुधं दधत् ॥ ६॥

 तमिति ॥ विरोधिनस्तारकस्य विद्वेषेण वैरेण हेतुना या रुट् क्रोधस्तया निमित्तेनाधिकं ज्वलन् प्रदीप्यमानः शिख्यग्निगिरेः शृङ्गस्य सोदरं सदृशम् , तद्व- द्विशालमित्यर्थः। तथा मदेन गर्वेण । 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः' इति मेदिनी। उद्धतं मेषं पशुविशेषं लोके 'मेंढा' इति ख्यातमधिष्ठितोऽधिरूढः, तथा महसा तेजसा महीयस्तरमतिशयं महदायुधं शस्त्रं दधत् , अथवा 'महो मही- यस्तरम्' इति छेदः । महस्तेजोरूपं महीयस्तरमायुधमिति व्याख्यातव्यम् । दध- त्सन् । तं कुमारमन्वगच्छदनुगतवान् । अत्राप्यभ्यगच्छदित्यसाधुर्बोध्यः ॥ ६॥

पाठा०-१ वेषः. २ ऐरावणम्. ३ महोद्धुरम् ; महोद्धतम्. ४ महामहौज-

स्तरसा युधे दधे महो महीयस्तरमादधद्युधि.