पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
[ सर्गः १४
कुमारसंभवे

विबुधचम्बो देवसेनास्तासां लक्ष्मीं वैभवं प्राप्य स्थितेन तेन हरसुतेन, हरसुलसाहाय्येनेत्यर्थः । सकलविबुधलोकः समस्तवृन्दारकनिचयः । स्रस्ताः ध्वस्ताः, नष्टा इति यावत् । निःशेषाः समग्राः शोका यस्य तथा कृता रिपोस्तारकस्य विजय आशा येन । तथा प्राप्तो युद्धायावकाशोऽवसरो येन । तथाभूतश्चाजनि जातः, कुण्ठितवीर्याणां सवीर्यसाहाय्यकमेव कार्यसिद्धिहेतुर्भवतीति भावः । मालिनीवृत्तमेतत् । लक्षणं तु पूर्वमेवोक्तम् ॥ ५१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीताराम-
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमार-
सैनापत्याभिषेको नाम त्रयोदशः सर्गः ॥

चतुर्दशः सर्गः ।

 रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा ।
 महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम् ॥ १॥

 रणेति ॥ जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुस्तेन जिगीषुणा । सन्नन्ताज्जयतेः 'सनाशंसभिक्ष उः' (पा. ३।२।१६८ ) इत्युप्रत्ययः । अत एव रणे समरे । 'रणः कोणे कणे पुंसि समरे पुंनपुंसकम् ।' इति मेदिनी । उत्सुकेनोत्कण्ठितेनान्धकशत्रोः शिवस्य सूनुना कुमारेण कर्त्रा । प्रयुक्तैः प्रेरितैः, संनहनार्थमिति शेषः। त्रिदशैर्देवैरिन्द्रादिभिः समं सार्धं तारकसंज्ञकं द्विषं शत्रुं महासुरं दैत्यं प्रसह्य बलाद्धन्तुं मारयितुं द्रुतं शीघ्रम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । समनह्यत संनद्धम् । नह्यतेर्भावे लङ् । सर्गेऽस्मिन्नपि वृत्तमुपजातिरेव ॥ १ ॥

 इतः परं 'स' इत्यादिभिस्त्रिभिः कुमारसंनहनमाह-

 स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः संनयनं सुदुःसहम् ।
 विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिधरोऽध्यरोहयत् ।।२।।


पाठा०-१ स्वयम्. २ जयेषुणा. ३ तारकसंज्ञितं द्विषम् ; तारकमूर्जितद्विषम्. ४ संगमनम् ; संयमनम्. ५ ततः. ६ अध्यरोहत.