पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
[ सर्गः १३
कुमारसंभवे

 दैतेयेति ॥ दैतेयानां दैत्यानां दन्त्यावलिर्गजावलिस्तस्यास्तत्कर्तृका ये दन्तघाता रदनताडितानि तैः क्षुण्णान्तराः क्षोदितमध्या अत एव महाहीनां महासर्पाणां निर्मोकाः कञ्चुकाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । तैः पिनद्धानि जालानि सौधजलानि यासु ताः स्फाटिकहर्मपङ्क्तीः स्फटिकनिर्मितसौधनिचयान्वीक्ष्य स सद्यस्तस्यां विपसाद, खिद्यति स्मेत्यर्थः । 'सद्यः सपदि तत्क्षणे' इत्यमरः ॥ ३८ ॥

 अथ युग्मेनाह-

 उत्कीर्गचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूपितानाम् ।
 हिरण्यहंसव्रजवर्जितानां विदीर्णवैडूयमहाशिलानाम् ॥ ३९ ॥
 आविर्भवद्भालतृणाञ्चितानांतदी यलीलागृहदीर्घिकाणाम् ।
 स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार ॥ ४० ॥

 उत्कीर्णेति ॥ आविर्भवदिति ॥ स कुमारः । उत्कीर्णान्युत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् , उत्खनितसुवर्णकमलानामित्यर्थः । तथा दिग्दन्निनामैरावतादीनां दानाः खण्डनाः, तज्जेतारस्तारकगजाः । कर्तरि ल्युट् । तेषां द्रवो मदजलं तेन दूषितानां म्लानीकृतानाम् , तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः । हिरण्यप्रचुरा ये हंसास्तेषां व्रजेन वर्जितानां रहितानाम् । दैत्योपद्रवादिति भावः । तथा विदीर्णाः स्फोटिता वैडूर्याणां रत्नविशेषाणां महत्यः शिला यासाम् । तथाविर्भवन्युदयमानानि यानि बालतृणानि शष्पाणि तैरञ्चितानां व्याप्तानाम् । तदीया ऐन्द्र्या या लीलार्थं गृहदीर्घिका गृहवापिकास्तासां संबन्धिनीम् । विरोधिभ्योऽरिभ्यो जातां दुर्दशां दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोर्भरम् । बह्व्यौ विषादलज्जे इत्यर्थः । बभार, दुर्दशादर्शनजनितकरुणाबीजं दुःखं मयि सत्यपि सुदुर्दशेति लज्जा हेतुरित्यर्थः ॥ ३९-४० ॥

 तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालम् ।
 निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ ४१॥

 तदन्तीति ॥ स कुमारः। सुरेन्द्रेणेन्द्रेण पुरोगतेनाग्रण्या सता तस्य तारकस्य


पाठा०-१ तदीय. २ तृणावृतानाम्. ३ सुदुर्दशाम्. ४ विरोधिजां ताम्.

५ हेमभित्तिम् ; गेहभित्तिम्.