शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिपूत्कटे' इति कोशोक्त्योत्कटवाचिनोऽप्युग्रशब्दस्य कथं भासुरवाचकतेति चेत्, -सत्यम् ; अत्रौत्कट्यं केनचिद्धर्मेण विवक्षितं, न तु तेजसैव । कान्त्या तापेन वा सौन्दर्यादिना बोत्कटोऽधिक इत्यर्थप्रणयना- त्प्रकृते समाधेयम् ॥ ७ ॥
रराज तेषां बजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः ।
नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते ॥ ८ ॥
रराजेति ॥ नभोन्तेऽन्तरिक्षमध्ये व्रजतां गच्छतां तेषां सुराणां मध्ये कुमारः कार्तिकेयः । अग्रेऽपि नभोन्त इत्यस्य संबन्धः कार्यः । नक्षत्राण्यश्विन्यादीनि, ताराः सप्तविंशतिव्यनिरिक्ताः, ग्रहाः सूर्यादयो नव, तेषां मण्डलानां गोलानां मध्ये त्रियामारमणश्चन्द्र इव रराज । यतोऽधिककान्त्या कान्तो मनोहरः । नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभ इत्यर्थः । पूर्णोपमालंकारः ॥ ८॥
गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोकमथात्मनीनम् ॥ ९ ॥
गिरीशेति ॥ अथ पुलोमपुत्री शची तस्या दयित इन्द्रः स आदिर्येषां तथाभूतास्ते देवा गिरीशगौरीतनयेन । ननु गिरीशगौर्योरेकतरेण सिद्धिरिति चेत्,-सत्यम् ; उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थमुभय- र्ग्रहणमिति समाधातव्यम् । सार्धं मुहूर्तात्क्षणमात्रेणैव नक्षत्रपथमाकाशमुत्तीर्योल्ल- ङ्घयात्मनीनमात्मने हितम् । 'तम्मै हितम्' (पा. ५।१।५) इत्यधिकारस्थेन 'आत्मविश्वजन-' (पा. ५।१।९) इत्यनेन खः । तथाभूतं लोकं स्वर्गं प्रपेदिरे प्रापुः । 'लोकस्तु भुवने जने' इत्यमरः ॥ ९ ॥
ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे तत्क्षणं व्यलम्बन्त सुराः समग्राः॥१०॥
त इति ॥ ते समग्राः सुरा महासुरात्तारकाद्यस्त्रासो भयं तस्य वशंवदत्वाद-
पाठा०-१ अधिककान्तकान्तिः. २ दयितः. ३ अन्तः. ४ मुहूर्तम्. ५ अथो
मुनीनाम्. ६ तम्. ७ समस्ताः.